________________
अतोऽनुमीयते सर्वगत आत्मेति । नैवम् । अदृष्टस्यं सर्वगतत्वे प्रमाणाऽभावात् । अथाऽस्त्येव प्रमाणं वह्नेरूद्मज्वलनं, वायोस्तिर्यक्पवनं चादृष्टकारितमिति चेत् । न; तयोस्तत्स्वभावत्वादेव तत्सिद्धेः; दहनस्य दहनशक्तिवत्। साऽप्यदृष्टकारिता चेत्, तर्हि जगत्त्रयवैचित्रीसूत्रणेऽपि तदेव सूत्रधारायतां, किमीश्वरकल्पनया ? तनायमंसिद्धो हे तुः । न चाऽनैकान्तिकः-साध्यसाधनयोाप्तिग्रहणेन व्यभिचाराऽभावात् । नापि विरुद्धः- अत्यन्तं विपक्षव्यावृत्तत्वात् । आत्मगुणाश्च बुद्ध्यादयः शरीर एवोपलभ्यन्ते, ततो गुणिनाऽपि तत्रैव भाव्यम् इति सिद्धः कायप्रमाण आत्मा ।
अन्यच्च, त्वयाऽऽत्मनां बहुत्वमिष्यते; नानात्मानो व्यवस्थातः' इति वचनात् । ते च व्यापकाः, ततस्तेषां प्रदीपप्रभामण्डलानामिव परस्पराऽनुवेधे तदाश्रितशुभाशुभ- कर्मणामपि परस्परं सङ्करः स्यात् । तथा चैकस्य शुभकर्मणा अन्यः सुखी भवेद्, इतरस्याशुभकर्मणा चान्यो दुःखीत्यसमञ्जसमापद्येत । अन्यञ्च, एकस्यैवाऽऽत्मनः स्वोपात्तशुभकर्मविपाकेन सुखित्वं, परोपार्जिताऽशुभकर्मविपाक सम्बन्धेन च दुःखित्वमिति युगपत्सुखदुःखसंवेदनप्रसङ्गः । अथ स्वावष्टब्धं भोगायतनमाश्रित्यैव शुभाशुभयो गः, तर्हि स्वोपार्जितमप्यदृष्टं कथं भोगायतनाद् बहिनिष्क्रम्य वढेरूद्मज्वलनादिकं करोति ? इति चिन्त्यमेतत् ।
आत्मनां च सर्वगतत्वे एकैकस्य सृष्टिकर्तृत्वप्रसङ्गः; सर्वगतत्वेनेश्वरान्तरानुप्रवेशस्य सम्भावनीयत्वात् । ईश्वरस्य वा तदन्तरऽनुप्रवेशे-तस्याऽप्यकर्तृत्वाऽऽपत्तिः, न हि क्षीरनीरयोरन्योऽन्यसम्बन्धे, एकतरंस्य-पानादिक्रियाऽन्यतरस्य न भवतीति युक्तं वक्तुम् । किञ्च, आत्मनः सर्वगतत्वे नरनारकादिपर्यायाणां युगपदनुभवानुषङ्गः । अथ भोगायतनाऽभ्युपगमाद् नायं दोष इति चेत्; ननु स भोगायतनं सर्वात्मना अवष्टनीयाद्, एकदेशेन वा ? । सर्वात्मना चेद् अस्मदभिमताङ्गीकारः । एकदेशेन चेत् सावयवत्वप्रसङ्गः, परिपूर्णभोगाऽभावश्च । १. 'सर्वगतत्वसाधने' इति रा. ह. क. ख. घ. पुस्तकेषु पाठः । . . २. सूत्रधारवन्मुख्यतः कर्तृत्वं लभताम् । ईश्वरे कर्तृत्वं किमर्थ कल्प्यत इत्यर्थः । ३. 'कर्मविपाकेन' इति क. पुस्तके पाठः । ४. 'अभ्युपगमे नायं दोषः' इति ख. पुस्तके पाठः । स्याद्वादमञ्जरी
५३)