________________
तदाऽऽश्रया हि गन्धादिपुद्गलाः तेषां च वैश्रसिक्या, प्रायोगिक्या वा गत्या गतिमत्त्वेन तदुपलम्भकघ्राणादिदेशं यावदागमनोपपत्तेरिति । अत एवाह-निष्प्रतिपक्षमेतदिति; एतद् निष्प्रतिपक्षं-बाधकरहितम् 'न हि दृष्टेऽनुपपन्नं नाम' इति न्यायात् । ___ बनु मन्त्रादीनां भिन्नदेशस्थानामप्याकर्षणोञ्चाटनादिको गुणो योजनशतादेः परतोऽपि दृश्यत इत्यस्ति बाधकमिति चेत् । मैवं वोचः । स हि न खलु मन्त्रादीनां गुणः, किन्तु तदधिष्ठातृदेवतानाम्; तासां चाकर्षणीयोच्चाटनीयादिदेशगमने कौतस्कुतोऽयमुपालम्भः ? । न जातु गुणा गुणिनमतिरिच्य वर्तन्त इति । अथोत्तरार्द्ध व्याख्यायते-तथापीत्यादि । तथापि-एवं निःसपत्नं व्यवस्थितेऽपि तत्त्वे; अतत्त्ववादोपहताः । अनाचार इत्यत्रेव नञः कुत्सार्थत्वात् । कुत्सिततत्त्ववादेन तदभिमताप्ताऽऽभासपुरूषविशेषप्रणीतेन तत्त्वाऽऽभासप्ररूपणेनोपहताः-व्यामोहिताः देहाद् बहिः-शरीरव्यतिरिक्तेऽपि देशे, आत्मतत्त्वम्"आत्मरूपम्; पठन्ति शास्त्ररूपतया प्रणयन्ते । इत्यक्षरार्थः ।
भावार्थस्त्वयम्-आत्मा सर्वगतो न भवति, सर्वत्र तद्गुणानुपलब्धेः । यो यः सर्वत्राऽनुपलभ्यमानगुणः स स सर्वगतो न भवति, यथा घटः । तथा चायम् । तस्मात् तथा । व्यतिरेके-व्योमादि । न चायमसिद्धो हेतुः-कायव्यतिरिक्तदेशे तद्गुणानां.बुद्ध्यादीनां वादिना, प्रतिवादिना वाऽनभ्युपगमात् । तथा चभट्टः श्रीधर:'सर्वगतत्वेऽप्यात्मनोदेहप्रदेशे ज्ञातृत्वम् । नान्यत्र । शरीररस्योपभोगाऽऽयतनत्वात् । अन्यथा तस्य वैयर्थ्यादिति' । _ अथास्त्यदृष्टमात्मनो विशेषगुणः; तञ्च सर्वोत्पत्तिमतां निमित्तं सर्वव्यापकं च; कथमितरथा द्वीपान्तरादिष्वपि प्रतिनियतदे शवर्तिपुरुषोपभोग्यानि कनकरत्नचन्दनाऽङ्गनादीनि तेनोत्पाद्यन्ते ? । गुणश्च गुणिनं विहाय न वर्तते, १. स्वाभाविकया । . . . २. दृष्टे वस्तुनि उपपत्तेरनपेक्षेत्यर्थः । ३. निर्विवादमित्यर्थः । ४. 'अपि' इति ख. पुस्तके नास्ति । ५. 'आत्मस्वरूपम्' इति क. ख. पुस्तकयोः पाठः । ६. 'स्वरूपतया' इति घ. पुस्तके पाठः । ७. 'अन्यथा' इति क. पुस्तके पाठः । (५२ aintinuinkukur स्याद्वादमञ्जरी