________________
कृतकृत्यत्वात् । वीर्याऽन्तराय क्षयोपनतस्त्वस्त्येव प्रयत्नः, दानादिलब्धिवत्; न च क्वचिदुपयुज्यते; कृतार्थत्वात् । धर्माधर्मयोस्तु पुण्य पापापरपर्याययोरूच्छेदोऽस्त्येव; तदभावे मोक्षस्यैवाऽयोगात्। संस्कारश्च मतिज्ञानविशेष एव; तस्य च मोह क्षयान्तरं क्षीणत्वादभाव इति । तदेवं न संविदानन्दमयी च मुक्तिरिति युक्तिरिक्तेयमुक्ति: । इति काव्यार्थः ।।८।।
अथ ते वादिनः कायप्रमाणत्वमात्मनः स्वयं संवेद्यमानमपलप्य, तादृशकुशास्त्रशस्त्रसंपर्कविनष्टदृष्टयस्तस्य विभुत्वं मन्यन्ते, अतस्तत्रोपालम्भमाह
यत्रैव यो दृष्टगुण: स तत्र कुम्भादिवद् निष्प्रतिपक्षमेतत् । तथापि देहाद् बहिरात्मतत्त्वमतत्त्ववादोपहताः पठन्ति ।।९।। .
यत्रैव-देशे, यः पदार्थः ; दृष्टगुणो, दृष्टाः-प्रत्यक्षादिप्रमाणतोऽनुभूताः, गुणा धर्मा यस्य स तथा; "स पदार्थः,तत्रैव-विवक्षितदेश एव । उपपद्यते इति क्रियाध्याहारो गम्यः। पूर्वस्यैवकारस्याऽवधारणार्थस्यात्राऽप्यभिसम्बन्धात् तत्रैव नान्यत्रेत्यन्ययोगव्यवच्छेदः । अमुमेवार्थं दृष्टान्तेन द्रढयति-कुम्भादिवदिति-घटादिवत्; यथा कुम्भादेर्यत्रैव देशे रूपादयोगुणा उपलभ्यन्ते, तत्रैवतस्याऽस्तित्वंप्रतीयते, नाऽन्यत्र ।एवामात्मनोऽपि गुणाश्चैतन्यादयो देह एव दृश्यन्ते, न बहिः, तस्मात् तत्प्रमाण एवायमिति । यद्यपि पुष्पादीनामवस्थानदेशादन्यत्रापि गन्धादिगुण उपलभ्यते, तथापि तेन न व्यभिचारः;
१. बलवता यूना रोगरहितेनापि पुंसा यस्य कर्मण उदयात्तृणपि न तिर्यक्कतु पार्यते तत्कर्म
वीर्यान्तरायाऽऽख्यम् । २. लब्धय: पञ्च । तथाहि-दानलाभभोगोपभोगगवीर्यभेदात्पञ्चधा । सूत्रकृताङ्गप्रथमश्रुतस्कन्धे १२
अ. । तत्त्वार्थसू. २-५ । ३. 'एव' इत्यधिक रा. ह. क. ख. घ. पुस्तकेषु । ४. 'स' इति क, पुस्तके नास्ति । स्याद्वादमञ्जरी
५१)