________________
अथ यदि सुखसंवेदनकस्वभावो मोक्षः स्यात्, तदा तद्रागेण प्रवर्तमानो मुमुक्षुर्न मोक्षमधिगच्छेत् । नहि रागिणां मोक्षोऽस्ति; रागस्य बन्धनात्मकत्वात् । नैवम् । सांसारिकसुख एव रागो बन्धनात्मकः विषयादिप्रवृत्तिहेतुत्वात्; मोक्षसुखे तु रागः-तनिवृत्तिहेतुत्वाद् न बन्धनात्मकः परां कोटिमारूढस्य च स्पृहामात्ररूपोऽप्यसौ निवर्तते; 'मोक्षे भवे च सर्वत्र निःस्पृहो मुनिसत्तमः' इति वचनात् । अन्यथा भवत्पक्षेऽपि दु:खनिवृत्त्यात्मकमोक्षाङ्गीकृतौ दुःखविषयं कषायंकालुष्यं केन निषेध्येत ? इति 'सिद्धं कृत्स्नकर्मक्षयात् परमसुखसंवेदनाऽऽत्मको मोक्षो, न बुद्ध्यादिविशेषगुणोच्छेदरूप इति ।
अपि च भोस्तपस्विन् । कथञ्चिदेषामुच्छेदोऽस्माकमप्यभिमत एवेति मा विरूपं मनः कृथाः । तथाहि- बुद्भिशब्देन ज्ञानमुच्यते; तच्च मतिश्रुताऽवधिमनःपर्यायकेवलभेदात् पञ्चधा । तत्राद्यं ज्ञानचतुष्टयं क्षायोपशमिकत्वात् केवलज्ञानाविर्भावकाल एव प्रलीनम्;
"नटुंमि य छाउमथिए नाणे' इत्यागमात् । केवलं तु सर्वद्रव्यपर्यायगतं क्षायिकत्वेन निष्कलङ्काऽऽत्मस्वरूपत्वाद्-अस्त्येव मोक्षाऽवस्थायाम्, सुखं तु वैषयिकं तत्र 'नास्ति, तद्धेतोर्वेदनीयकर्मणोऽभावात् । यत्तु निरतिशयक्षयमनपेक्षमनन्तं च सुखं तद् बाढं विद्यते दुःखस्य चाधर्ममूलत्वात् तदुच्छेदादुच्छेदः ।
नन्वेवं सुखस्याऽपि धर्ममूलत्वाद् धर्मस्य चोच्छेदात् तदपि न युज्यते; 'पुण्यपापक्षयो मोक्षः' इत्यागमवचनात् । नैवम् । वैषयिकसुखस्यैव धर्ममूलत्वाद् भवतु तदुच्छेदः, न पुनरनपेक्षस्यापि सुखस्योच्छेदः । इच्छाद्वेषयोः पुनर्मोहभेदत्वात्, तस्य च समूलकाषंकर्षितत्वादभावः । प्रयत्नश्च क्रियाव्यापारगोचरो नास्त्येव;
१. 'सिद्धः' इति घ. पुस्तके पाठः । २. विस्तरतस्तु अस्मन्मुद्रापितसभाष्यतत्त्वार्थाधिगमसूत्रे १-९, १-१५, १-२०, १-२१, १-२४, १०-१
सूत्रेषु दृष्टव्यम् । ३. 'विलीनम्' इति घ. पुस्तके पाठः । ४. उप्पण्णंमि अणंते नळूमि च छाउमत्थिए नाणे । राईए, संपत्तो महसेणवणंभिउज्जाणे ।।, छाया
उत्पन्नेऽनन्ते नष्टे च छाद्यस्थिके ज्ञाने । रात्र्यां संप्राप्तो महसेनवनं उद्यानं ।।५३९ ।।.
आवश्यकपूर्वविभागः । ५. 'नास्त्येव' इति घ. पुस्तके पाठः ।
५० Minisitinkuraudurint स्याद्वादमञ्जरी