________________
मम्लानज्ञानं च मोक्षमाचक्षते विचक्षणाः । यदि तु जड: पाषाणनिर्विशेष एव तस्यामवस्थायामात्मा भवेत्, तदलमपवर्गेण; संसार एव वरमस्तु । यत्र तावदन्तराऽन्तरापि दुःखकलुषितमपि कियदपि सुखमनुभुज्यते, चिन्त्यतां तावत्किमल्पसुखाऽनुभवो भव्यः, उत सर्वसुखोच्छेद एव ? |
अथाऽस्ति तथाभूते मोक्षे लाभातिरेकः २ प्रेक्षादक्षाणाम्; ते ह्येवं विवेचयन्तिसंसारे तावद् दुःखास्पृष्टं सुखं न सम्भवति, दुःखं चावश्यं हेयम्, विवेकानं चानयोरेकभाजनपतितविषमधुनोरिव दुःशकम्, अत एव द्वे अपि त्यज्येते, "ततश्च संसाराद् मोक्षः श्रेयान् यतोऽत्र दुःखं सर्वथा न स्यात् । वरमियती कादाचित्कसुखमात्राऽपि त्यक्ता, न तु तस्याः दुःखभार इयान् व्यूढ इति ।
,
तदेतत्सत्यम्; संसारिकसुखस्य मधुदिग्धधाराकरालमण्डलाग्रग्रासवद् दुःखरूपत्वादेव युक्तैव मुमुक्षूणां तज्जिहासा, किन्त्वात्यन्तिकसुख विशेषलिप्सूनामेव । इहापि विषयनिवृत्तिजं सुखमनुभवसिद्धमेव तद् यदि मोक्षे विशिष्टं नास्ति, ततो मोक्षो दुःखरूप एवापद्यत इत्यर्थः । येऽपिं विषमधुनी एकत्र सम्पृक्ते त्यज्येते, तेऽपि सुखविशेषलिप्सयैव । किञ्च यथा प्राणिनां संसारावस्थायां सुखमिष्टं दुःखं चानिष्टम्, तथा मोक्षावस्थायां दुःखनिवृत्तिरिष्टा, सुखनिवृत्तिस्त्वनिष्टैव । ततो यदि त्वदभिमतो मोक्षः स्यात्, तदा न प्रेक्षावतामत्र' प्रवृत्तिः स्यात्, भवति चेयम् । ततः सिद्धः मोक्षः सुखसंवेदनस्वभाव:, प्रेक्षावत्प्रवृत्तेरन्यथाऽनुपपत्तेः ।
१. 'जडः' इति घ. पुस्तके नास्ति ।
२. 'सत्प्रेक्षा' इति क पुस्तके पाठः ।
३. 'विचारयन्ति' इति क . पुस्तके पाठः । ४. 'दुः शक्यम्' इति घ. पुस्तके पाठः । 'अतश्च' इति रा. ह. पुस्तकयोः पाठः । ६. 'विशेष' इति क पुस्तके नास्ति ।
५.
७. 'एव' इति क पुस्तके नास्ति ।
८. 'अत्र' इति रा. पुस्तके नास्ति ।
९. 'सिद्धम्' इति रा. ह. पुस्तकयोः पाठः ।
स्याद्वादमञ्जरी ॐ ॐ ॐ ॐ ॐ ॐ ॐ ॐ ॐ ॐ ४९