________________
सुखदुःखाभ्यां भाव्यम् । 'परस्परानुषक्तत्वं च समासकरणादभ्यूह्यते । अशरीरंमुक्तात्मानं 'वाशब्दस्यैवका - रार्थत्वाद् अशरीरमेव; वसन्तं-सिद्धिक्षेत्रमध्यासीनं, प्रियाप्रिये परस्परानुषक्ते सुखदुःखे न स्पृशतः ।
इदमत्र'हृदयम्-यथा किल संसारिणः सुखदुःखे परस्परानुषक्ते स्यातां, न तथा मुक्तात्मनः, किन्तु केवलं सुखमेव दुःखमूलस्य शरीरस्यैवाऽभावात् । सुखं त्वात्मस्वरूपत्वादवस्थितमेव; स्वस्वरूपाऽवस्थानं हि मोक्षः; अत एव चाशरीरमित्युक्तम् । आगमार्थश्चायमित्थमेव समर्थनीयः ; यत एतदर्थानुपातिन्येव स्मृतिरपि दृश्यते
'सुखमात्यन्तिकं यत्र बुद्धिग्राह्यमतीन्द्रियम् ।
तं वै मोक्षं विजानीयाद् दुष्प्रापमकृतात्मभिः ।। १ ।।'
न चायं सुखशब्दो दुःखाभावमात्रे वर्तेत - मुख्यसुखवाच्यतायां बाधकाभावात् । अयं रोगाद् विप्रमुक्तः सुखी जात इत्यादिवाक्येषु च सुखीति ४ प्रयोगस्य पौनरूक्त्यप्रसङ्गाच्च । दुःखाभावमात्रस्य - रोगाद् विप्रमुक्त इतीयतैव गतत्वात् ।
न च भवदुदीरितो मोक्षः पुंसामुपादेयतया संमतः । को हि नाम शिलाकल्पमपगतसकलसुखसंवेदनमात्मानमुपपादयितुं यतेत दुःखसंवेदनरूपत्वादस्य सुखदुःखयोरेकस्याऽभावे परस्याऽवश्यंभावात् । अत एव " त्वदुपहासः श्रूयते
'वरं वृन्दावने रम्ये क्रोष्टृत्वमभिवाञ्छितम् ।
न तु वैशेषिकीं मुक्तिं गौतमो गन्तुमिच्छति' ।। १ ।।
सोपाधिकसावधिकपरिमिताऽऽनन्दनिष्यन्दात् स्वर्गादप्यधिकं तद्विपरीतानन्द
१।२. एकद्वाक्यं चिन्हान्तर्गतत्वेन अस्मदुपलब्धेषु लिखितपुस्तकेषु नास्ति । तेनास्माभिरपि चिह्नरहितत्वेन मुद्रापम् ।
३. रहस्यमित्यर्थः ।
४. 'प्रयोगस्यापि' इति घ. पुस्तके पाठः ।
५. 'तदुपहास:' इति घ. पुस्तके पाठः ।
४८ स्याद्वादमञ्जरी