________________
गृहीतयोस्तयोरुत्पद्यत इति चेत् - कुतस्तद्गृहीति: ? । न तावत् स्वतः; स्वसंवेदनाऽनभ्युपगमात् । स्वसंविदिते ह्यात्मनि, ज्ञाने च, स्वतः सा युज्यते; नान्यथा; सन्तानान्तरवत् । परतश्चेत्; तदपि ज्ञानान्तरं विशेष्यं-नागृहीते ज्ञानत्वविशेषणे, ग्रहीतुं शक्यम् । गृहीते हि घटत्वे घटग्रहणमिति ज्ञानाऽन्तरात् तद्ग्रहणेन भाव्यम्; इत्यनवस्थानात् कुतः प्रकृतप्रत्ययः । तदेवं नात्मनो जडस्वरूपता 'संगच्छते तदसङ्गतौ च चैत्यमौपाधिकमात्मनोऽन्यदिति वाङ्मात्रम् ।
-
तथा यदपि-न संविदानन्दमयी च मुक्तिरिति व्यवस्थापनाय अनुमानमवादिसन्तानत्वादिति । तत्राभिधीयते ननु किमिदं सन्तानत्वं - स्वतन्त्रम्अपरापरपदार्थोत्पत्तिमात्रं वा, एकाऽऽश्रयापरापरोत्पत्तिर्वा ? तत्राद्यः पक्षः सव्यभिचारः अपराऽपरेषामुत्पादकानां घटपटकटादीनां सन्तानंत्वेऽप्यत्यन्तमनुच्छिद्यमानत्वात् । अथ द्वितीयः पक्षः, तर्हि तादृशं सन्तानत्वं प्रदीपे नास्तीति साधनविकलो दृष्टान्तः परमाणुपाकजरूपादिभिश्च व्यभिचारी हेतुः, तथाविधसन्तानत्वस्य तत्र सद्भावेऽप्यत्यन्तोच्छेदाऽभावात् । अपि च सन्तानत्वमपि भविष्यति, अत्यन्तानुच्छेदश्च भविष्यति विपर्यये बाधकप्रमाणाऽभावात्; इति संदिग्धविपक्षव्यावृत्तिकत्वादप्यनैकान्तिकोऽयम् । किञ्च, स्याद्वादवादिनां नास्ति क्वचिदत्यन्तमुच्छेदः, द्रव्यरूपतया स्थास्तूनामेव सतां भावानामुत्पादव्यययुक्तत्वाद्, ४ इति विरूद्धश्च । इति नाधिकृतानुमानाद् बुद्ध्यादिगुणोच्छेदरुपा सिद्धिः सिद्ध्यति ।
नापि ‘“न हि वै सशरीरस्य' इत्यादेरागमात्; स हि शुभाशुभाऽदृष्टपरिपाकजन्ये सांसारिकप्रियाप्रिये परस्परानुषक्ते अपेक्ष्य व्यवस्थितः । मुक्तिदशायां तु सकलादृष्टक्षयहेतुकमैकान्तिकमात्यन्तिकं च केवलं प्रियमेव, तत्कथं प्रतिषिध्यते ? । आगमस्य चायमर्थ:-सशरीरस्य- गतिचतुष्टयान्यतमस्थानवर्तिन आत्मनः प्रियाप्रिययो:परस्परानुषक्तयोः सुखदुःखयोः- अपहति-अभावो नास्तीति । अवश्यं हि तत्र
१. 'संगच्छेत' इति घ. पुस्तके पाठः ।
२. जडस्वरूपताप्राप्त्यभावे च ।
-
३. 'सत्तानस्य' इति क पुस्तके पाठः ।
४. 'इति' पदं घ. पुस्तके नास्ति ।
५. 'न वै सशरीरस्य सतः प्रियाप्रिययोरपहतिरस्ति इति छां. अ. ८ । १२ ।
स्याद्वादमञ्जरी बैंक ४७