________________
सर्प आत्मानमात्मना 'वेष्टयतीति । अथ परिकल्पितोऽयं कर्तृकरणभाव इति चेद्, वेष्टनावस्थायां प्रागवस्था - विलक्षणगतिनिरोधलक्षणार्थक्रियादर्शनात् कथं परिकल्पितत्वम् ? न हि परिकल्पनाशतैरपि शैलस्तम्भ आत्मानमात्मना वेष्टयतीति वक्तुं शक्यम्; तस्मादभेदेऽपि कर्तृकरणभावः सिद्ध एव । किञ्च चैतन्यमिति शब्दस्य चिन्त्यतामन्वर्थ:- चैतनस्य भावश्चैतन्यम्; चेतनश्चात्मा त्वयाऽऽपि कीर्त्यते; तस्य भावः स्वरूपं - चैतन्यम् । यच्च यस्य स्वरूपं, न तत् ततो भिन्नं भवितुमर्हति; यथा वृक्षाद् वृक्षस्वरूपम् ।
अथास्ति चेतन आत्मा, परं चेतना समवायसम्बन्धात्, न स्वतः, तथाप्रतीतेः इति चेत्; तदयुक्तम् । यतः प्रतीतिश्चेत् प्रमाणीक्रियते, तर्हि निर्बाधमुपयोगात्मक एवात्मा प्रसिद्ध्यति; न हि जातुचित् स्वयमचेतनोऽहं-चेतनायोगात् चेतनः, अचेतने वा मयि चेतनायाः समवाय इति प्रतीतिरस्ति; ज्ञाताऽहमिति समानाधिकरणतया प्रतीतेः । भेदे तथाप्रतीतिरिति चेत् । न; कथञ्चित् तादात्म्याऽभावे सामानाधिकरण्यप्रतीतेरदर्शनात् । यष्टिः पुरुष इत्यादिप्रतीतिस्तु भेदे सत्युपचाराद् दृष्टा, न पुनस्तात्त्विकी । उपचारस्य तु बीजं पुरुषस्य यष्टिगतस्तब्धत्वादिगुणैरभेदः । उपचारस्य मुख्यार्थस्पर्शित्वात् । तथा चात्मनि ज्ञाताऽहमितिप्रतीतिः कथञ्चित् चेतनात्मतां गमयति, तामन्तरेण ज्ञाताऽहमिति प्रतीतेरनुपपद्यमानत्वात् घटादिवत्; न हि घटादिरचेतनात्मको ज्ञाताहमिति प्रत्येति । चैतन्ययोगाभावाद् असौ न तथा प्रत्येतीति चेत् । न, अचेतनस्यापि चैतन्ययोगात्-चेतनोऽहमिति प्रतिपत्तेरनन्तरमेव निरस्तत्वात् इत्यचेतनत्वं सिद्धमात्मनो जडस्यार्थपरिच्छेदं पराकरोति । तं पुनरिच्छता-चैतन्यस्वरूपताऽस्य स्वीकरणीया ।
ननु ज्ञानवानहमिति प्रत्ययादात्मज्ञानयोर्भेदः, अन्यथा धनवानिति प्रत्ययादपि धनधनवतोर्भेदाभावानुषङ्गः । तदसत्; ज्ञानवानहमिति नात्मा भवन्मते प्रत्येति, जडैकान्तरूपत्वाद्, घटवत् । सर्वथा जडश्च स्यादात्मा, ज्ञानवानहमितिप्रत्ययश्च स्याद् अस्य; विरोधाभावाद् इति मा निर्णैषीः । तस्य तथोत्पत्त्यसम्भवात् । ज्ञानवानहमित्तिं हि प्रत्ययो न अगृहीते ज्ञानाख्ये विशेषणे, विशेष्ये चात्मनि जातूत्पद्यते; स्वमतविरोधात् । 'नागृहीतविशेषणा विशेष्ये बुद्धिः' इति वचनात् ।
१. 'अत्र' इत्यधिकं रा. ह. पुस्तकयोः । तथाग्रे 'अभेदे' यथा कर्तृकरणभावस्तथाऽत्रापि । इति रा. ह. पुस्तकयोरधिकम् ।
२. 'तत्' इति क पुस्तके नास्ति ।
३. 'जातूपपद्यते' इति घ. पुस्तके पाठः ।
स्याद्वादमञ्जरी