________________
एव प्रतीतः, तत्कथं ज्ञानात्मनोरभेदः ? इति चेत् । न; दृष्टान्तस्य वैषम्यात् । वासी हि बाह्यं करणं, ज्ञानं 'चान्तरं, तत्कथमनयोः साधर्म्यम् ? न चैवं . करणस्य द्वैविध्यमप्रसिद्धम् । यदाहुर्लाक्षणिकाः
'करणं द्विविधं ज्ञेयं बाह्यमाभ्यन्तरं बुधैः । यथा लुनाति दात्रेण मेरुं गच्छति चेतसा' ।।१।। यदि हि किञ्चित्करणमान्तरमेकान्तेन भिन्नमुपदर्श्यते, ततः स्याद् दृष्टान्तदार्टान्तिकयोः साधर्म्यम्, न च तथाविधमस्ति । न च बाह्यकरणगतो धर्मः सर्वोऽप्यान्तरे योजयितुं शक्यते, अन्यथा दीपेन चक्षुषां देवदत्तः पश्यतीत्यत्रापि दीपादिवत् चक्षुषोऽप्येकान्तेन देवदत्तस्य भेदः स्यात्। तथा च सति लोकप्रतीतिविरोध इति ।
अपि च, साध्यविकलोऽपि वासिवर्धकिदृष्टान्तः, तथाहि-नायं वर्धकि:'काष्ठमिदमनया वास्या घटयिष्ये' इत्येवं वासिग्रहणपरिणामेनाऽपरिगतः सन् तामगृहीत्वा घटयति, किन्तु तथा परिणतस्तां गृहीत्वा; तथा परिणामे च वासिरपि तस्य काष्ठस्य घटने 'व्याप्रियते, पुरुषोऽपि इत्येवं लक्षणैकार्थसाधकत्वात् वासिवर्धक्योरभेदोऽप्युपद्यते; तत्कथमनयोर्भेद एव ?', इत्युच्यते । एवमात्माऽपि 'विवक्षितमर्थमनेन ज्ञानेन ज्ञास्यामि' इति ज्ञान-ग्रहणपरिणामवान् ज्ञानं गृहीत्वाऽर्थ व्यवस्यति, ततश्च ज्ञानात्मनोरुभयोरपि संवित्तिलक्षणैककार्यसाधकत्वादभेद एव । एवं कर्तृकरणयोरभेदे सिद्धे संवित्तिलक्षणं कार्यं किमात्मनि व्यवस्थितं, आहोस्विद् विषये ? इति वाच्यम् । आत्मनि चेत्-सिद्धं नः समीहितम् । विषये चेत् कथमात्मनोऽनुभवः प्रतीयते ? । अथ विषयस्थितसंवित्तेः सकाशादात्मनोऽनुभवः, तर्हि किं न पुरुषान्तरस्याऽपि ?; तद्भेदाऽविशेषात् ।
अथ ज्ञानाऽऽत्मनोरभेदपक्षे कथं कर्तृकरणभावः, इति चेत्, ननु यथा
१. 'चाभ्यन्तरम्' इति रा. पुस्तके पाठः । २. 'नचेदम्' इति क. पुस्तके पाठः । ३. 'व्याप्रियेत' इति ख. पुस्तके पाठः । ४. 'तमर्थम्' इति क. पुस्तके पाठः ।
स्याद्वादमञ्जरी NRNAMANANDNA ४५)