________________
ज्ञानमपि यद्येकान्तेनात्मनः सकाशाद् भिन्नमिष्यते, तदा तेनचैत्रज्ञानेनं मैत्रस्येव, नैव विषयपरिच्छेदः स्यादात्मनः । अथ यत्रैवात्मनि समवायसम्बन्धेन समवेतं ज्ञानं तत्रैव भावावभासं करोतीति चेत् । न समवायस्यैकत्वाद्, नित्यत्वाद्, व्यापकत्वाच्च, सर्वत्र वृत्तेरविशेषात्, समवायवदात्मनामपि व्यापकत्वादेकज्ञानेन सर्वेषां विषयावबोधप्रसङ्गः । यथा च घटे रूपादयः समवायसम्बन्धेन समवेताः, तद्विनाशे च तदाश्रयस्य घटस्यापि विनाशः, एवं ज्ञानमप्यात्मनि समवेतं, तंञ्च क्षणिकं, ततस्तद्विनाशे आत्मनोऽपि विनाशापत्तेरनित्यत्वापत्तिः ।
अथाऽस्तु समवायेन ज्ञानाऽऽत्मनोः सम्बन्धः, किंतु स एव समवायः केन तयोः सम्बध्यते ? । समवायान्तरेण चेद्; अनवस्था । स्वेनैव चेत्; किं न ज्ञानात्मनोपरि तथा ? । अथ यथा प्रदीपस्तंत्स्वाभाव्याद् आत्मानं, परं च प्रकाशयति, तथा समवायस्येदृगेव स्वभावो यदात्मानं, ज्ञानात्मानौ च सम्बन्धयतीति चेत्, ज्ञानात्मनोरपि किं न तथास्वभावता, येन स्वयमेवैतौ सम्बध्येते ? । किञ्च, प्रदीपदृष्टान्तोऽपि भवत्पक्षे न जाघटीति, यतः प्रदीपस्तावद् द्रव्यं, प्रकाशश्च तस्य धर्मः, धर्मधर्मिणोश्च त्वयाऽत्यन्तं भेदोऽभ्युपगम्यते; तत्कथं प्रदीपस्य प्रकाशात्मकता ?; तदभावे च स्वपरप्रकाश स्वभावताभणितिनिर्मूलैव ।
यदि च प्रदीपात् प्रकाशस्यात्यन्तभेदेऽपि प्रदीपस्य स्वपरप्रकाशकत्वमिष्यते, तदा घटादीनामपि तदनुषज्यते; भेदाऽविशेषात् । अपि च तौ स्वपरसम्बन्धस्वभावौ समवायाद् भिन्नौ स्याताम्, अभिन्नौ वा ? । यदि भिन्नौ ततस्तस्यैतौ स्वभावाविति कथं सम्बन्धः?; सम्बन्धनिबन्धनस्य समवायान्तरस्यानवस्थाभयादनभ्युपगमात् । अथाभिन्नौ, ततः समवायमात्रमेव; न तौ तदव्यतिरिक्तत्वात् तत्स्वरूपवदिति । किञ्च, यथा इह समवायिषु समवाय इति मतिः समवायं विनाप्युपपन्ना, तथा इहात्मनि ज्ञानमित्ययमपि प्रत्ययस्तं विनैव चेदुच्यते, तदा को दोषः ? ।
अथाऽऽत्मा कर्ता, ज्ञानं च करणं, कर्तृकरणयोश्च वर्धकिवासिवद् भेद
१. 'प्रकाशकस्वभावता' इति ह. रा. पुस्तकयो पाठः । २. 'च' इति ख. घ. पुस्तकयो स्ति । ३. वर्धकिस्त्वष्टा, वासी तच्छस्त्रम् ।
(४४Muhura स्याद्वादमञ्जरी