________________
मुख्येऽध्यारोपस्याऽसम्भवाद्र्व्यादिषु मुख्योऽयमनुगतः प्रत्ययः, सामान्यादिषु . तु गौण इति चेत् । न विपर्ययस्यापि शक्यकल्पनत्वात् । . . ___सामान्यादिषु बाधकसम्भवाद्-न मुख्योऽनुगतः प्रत्ययः, द्रव्यादिषु तु तदभावाद् मुख्य इति चेद्; ननु किमिदं बाधकम् ?। अथ सामान्येऽपि सत्ताऽभ्युपगमे-अनवस्था; विशेषेषु पुनः सामान्यसद्भावे- स्वरूपहानिः, समवायेऽपि सत्ताकल्पने-तद्वृत्त्यर्थं सम्बन्धान्तराभाव इति बाधकानीति चेत् । न; सामान्येऽपि सत्ताकल्पने यद्यनवस्था, तर्हि कथं न सा द्रव्यादिषु ?; तेषामपि स्वरूपसत्तायाः प्रागेव विद्यमानत्वात्। विशेषेषु पुनः सत्तांभ्युपगमेऽपि न 'रुपहानिः; स्वरूपस्य प्रत्युतोत्तेजनात्; निःसामान्यस्य विशेषस्य क्वचिदप्यनुपलम्भात् । समवायेऽपि समवायत्वलक्षणायाः स्वरूपसत्तायाः स्वीकार उपपद्यत एवाविष्वग्भावात्मकः सम्बन्धः, अन्यथा तस्य स्वरूपाभावप्रसङ्गः; इति बाधकाभावात् तेष्वपि द्रव्यादिवद् मुख्य एव सत्तासम्बन्धः इति व्यर्थं द्रव्यगुणकर्मस्वेव सत्ताकल्पनम् ।
किञ्च तैर्वादिभिर्यो द्रव्यादित्रये मुख्यः सत्तासम्बन्धः कक्षीकृतः, सोऽपि विद्यार्यमाणो विशीर्येत । तथाहि- यदि द्रव्यादिभ्योऽत्यन्तविलक्षणा सत्ता, तदा द्रव्यादीन्यसद्रूपाणि स्युः । सत्तायोगात् सत्त्वमस्त्येवेति चेत्; असतां सत्तायोगेऽपि कुत: सत्त्वम् ? ; सतां तु निष्फल: सत्तायोगः । स्वरूपसत्त्वं भावानामस्त्येवेति चेत, तर्हि कि 'शिखण्डिना सत्तायोगेन ? । सत्तायोगात् प्राग् भावो न सन्, नाप्यसन्, सत्तायोगात् तु सन्निति चे; वाङ्मात्रमेतत्; सदसद्विलक्षणस्य प्रकारन्तरास्यासम्भवात् । तस्मात् सतामपि स्यात् क्वचिदेव सत्तेति तेषां वचनं विदुषां परिषदि कथमिव नोपहासाय जायते ?।
१. 'अनुगमप्रत्ययः' इति क. पुस्तके पाठ: । २. 'अनुगमप्रत्ययः' इति क. पुस्तके पाठः । ३. 'स्वरूपहानिः' इति रा. हा. पुस्तकयोः पाठः । ४. 'निर्विशेषं हि सामान्यं भवेत्खरविषाणवत् । सामान्यरहितत्वे तु विशेषास्तद्वदेव हि' ।।१।। ५. 'एव' इति ह. रा. पुस्तकयोरधिकम् । ६. शिखण्डिन्-स्वयंवरे वृतेन भीष्मेणापाकृता काचिदम्बानाम्नी राजकन्या तपसा पुरुषत्वं प्राप्ता
सैव शिखण्डीति संज्ञया व्यवजते । स च स्त्रीपूर्वत्वानिन्दास्पदम् । ततो भारते युद्धे तं
पुरस्कृत्याऽर्जुनो भीष्मं जघान । सोऽपि शिखण्डी पश्चादश्वत्थाम्ना हतः । ... (स्याद्वादमञ्जरीhathiandian
४ ३)