________________
तदेतदभ्युपगमत्रयमित्थं समर्थयद्भिः, अत्वदीयैः-त्वादाज्ञाबहिर्भूतैः, कणादमतानुगामिभिः, सुसूत्रमासूत्रितम्-सम्यगागमः प्रपञ्चितः । अथवा सुसूत्रमिति क्रियाविशेषणम् शोभनं सूत्रं वस्तुंव्यवस्थाघटनाविज्ञानं यत्रैवमासूत्रितंतत्तच्छानार्थोपनिबन्धः कृतः, इति हृदयम् । "सूत्रं तु सूचनाकारिग्रन्थे तन्तुव्यवस्थयोः' । इत्यनेकार्थवचनात् ।
- अत्र च सुसूत्रमिति विपरीतलक्षणयोपहासगर्भप्रशंसावचनम् । यथा-''उपकृतं बहु तत्र किमुच्यते सुजनता प्रथिता भवता चिरम् ।' इत्यादि । उपहसनीयता च युक्तिरिक्तत्वात् तदङ्गीकाराणाम् । तथाहि-अविशेषेण सद्बुद्धिवेद्येष्वपि सर्वपदार्थेषु द्रव्यादिष्वेव त्रिषु सत्तासम्बन्धः स्वीक्रियते, न सामान्यादित्रये, इति महतीयं पश्यतोहरता । यतः परिभाव्यतां सत्ताशब्दार्थः-अस्तीति सन्, सतो भावः सत्ता, अस्तित्वं तद्वस्तुस्वरूपं; तञ्च निर्विशेषमशेषेष्वपि पदार्थेषु
त्वयाऽप्युक्तम्, तत्किमिदमर्द्धजरतीयं यद् द्रव्यादित्रय एव सत्तायोगो, नेतरत्र त्रये ? इति ।
अनुवृत्तिप्रत्ययाभावाद् न सामान्यादित्रये सत्तायोग इति चेत् । न; तत्राप्यनुवृत्तिप्रत्य- स्यानिवार्यत्वात् । पृथिवीत्वगोत्वघटत्वादिसामान्येषु सामान्य सामान्यमिति; विशेषेष्वपि बहुत्वाद्अयमपि विशेषोऽयमपि विशेष इति; समवाये च प्रागुक्तयुक्त्या तत्तदवच्छेदकभेदाद्-एकाकारप्रतीतेरनुभवात् ।। ___ स्वरूपसत्त्वसाधर्म्यण सत्ताऽध्यारोपात् सामान्यादिष्वति सत् सदित्यनुगम इति चेत्.तर्हि मिथ्यांप्रत्ययोऽयमापद्यते । अथ भित्रस्वभावेष्वेकानुगमो मिथ्यैवेति चेद् द्रव्यादिष्वपि सत्ताऽध्यारोपकृत एवाऽस्तु प्रत्ययाऽनुगमः, नैवम् । असति
१. हेमचन्द्रकृतेऽनेकार्थसंग्रहे द्वितीयकाण्डे श्लो. ४५८ । २. 'विदधदीदृशमेव सदा सखे सुखितमास्स्व ततः शरदां शतम्' इत्युत्तरार्धम् । ३. पश्यतोहरश्चौरः । पश्यतोहरता चौर्यम् । ४. 'षण्णां पदार्थानां साधर्म्यमस्तित्वं ज्ञेयत्वमभिधेयत्वं च इति प्रशस्तकारवचनात्' । इति ख.
पुस्तकटिप्पन्याम् । ५. अर्धा जरती अर्धा युवतिरितिवत् ।। ६. 'नैवम्' इति नास्ति रा. ह. पुस्तकयोः ।
D
(PRAKASHATARNATAK स्याद्वादमञ्जरी