________________
सन्तानत्वात्, यो यः सन्तान: स सोऽत्यन्तमुच्छिद्यते, यथा प्रदीपसन्तानः, तथा चायम, तस्मात्तदत्यन्तमुच्छिद्यत इति । तदुच्छेद एव महोदयः, न कृत्स्नकर्मक्षयलक्षण इति । न हि वै सशरीरस्य प्रियाप्रिययोरपहतिरस्ति अशरीरं वा वसन्तं प्रियाप्रिये न स्पृशतः'। इत्यादयोऽपि वेदान्तास्तादृशीमेव मुक्तिमादिशन्ति । अत्र हि प्रियाप्रिये-सुखदुःखे, ते चाशरीरं-मुक्तं न स्पृशतः ।
अपि च-'यावदात्मगुणाः सर्वे नोच्छिन्ना वासनादयः । तावदाऽऽत्यन्तिकी दुःखव्यावृत्तिर्न विकल्प्यते ।।१।। धर्माधर्मनिमित्तो हि सम्भवः सुखदुःखयोः । . मूलभूतौ च तावेव स्तम्भौ संसारसद्मनः ।।२।। तदुच्छेदे च तत्कार्यशरीराद्यनुपप्लवात् । नात्मनः सुखदुःखे स्त इत्यसौ मुक्त उच्यते ।।३।। इच्छाद्वेषप्रयत्नादि भोगायतनबन्धनम् । उच्छिन्नभोगायतनो नात्मा तैरपि युज्यते ।।४।। तदेवं धिषणादीनां नवानामपि मूलतः । गुणानामात्मनो ध्वंसः सोऽपवर्ग: प्रतिष्ठितः ।।५।। ननु तस्यामवस्थायां कीदृगात्माऽवशिष्यते ? । स्वरूपैकप्रतिष्ठानः परित्यक्तोऽखिलैर्गुणैः ।।६।। ऊर्मिषट्कातिगं रूपं तदस्याऽऽहुर्मनीषिणः । . संसारबन्धनाधीनदुःखकेशाद्यदूषितम् ।।७।। । कामक्रोधलोभगर्वदम्भहर्षा- ऊर्मिषट्कमिति' ।
१. न वै सशरीरस्य सतः प्रियाप्रिययोरपहतिरस्त्यशरीरं वावसन्तं न प्रियाप्रिये स्पृशतः । इति छां.
अ. ८.१२। २. 'प्राणस्य क्षुत्पिपासे द्वे मनसः शोकमूढते । जरामृत्यू शरीरस्य षडूमिरहितः शिवः'।। इति
पुराणे। ख. पुस्तकटिप्पन्याम् । स्याद्वादमञ्जरी
u nniu ४१