________________
सम्बन्धभावः; केन हि सम्बन्धेन तत्र सत्ता सम्बध्यते ?, समवायाऽन्तराऽभावात् । तथा च प्रामाणिकप्रकाण्डमुदयनः
" व्यक्तेरभेदस्तुल्यत्वं सङ्करोऽथाऽनवस्थिति: । रूपहानिरसम्बन्धो जातिबाधकसङ्ग्रहः' ।।१।। इति ।
ततः स्थितमेतत्सतामपि स्यात् क्वचिदेव सत्तेति ।
तथा', चैतन्यमित्यादि, चैतन्यं ज्ञानम्, आत्मनः - क्षेत्रज्ञाद्, अन्यद्-अत्यन्तव्यतिरिक्तम्, असमासकरणादत्यन्तमिति लभ्यते । अत्यन्तभेदे सति कथमात्मनः सम्बन्धिज्ञानमिति व्यपदेश: ?, इति पराऽऽशङ्कापरिहारार्थम् औपाधिकमिति विशेषणद्वारेण हेत्वभिधानम् । उपाधेरागतमौपाधिकम् । समवायसम्बन्धलक्षणेनोपाधिना आत्मनि समवेतम्, आत्मनः स्वयं जडरूपत्वात् समवायसम्बन्धोपढौकितमिति यावत् । यद्यात्मनो ज्ञानादव्यतिरिक्तत्वमिष्यते, तदा 'दुःखजन्मप्रवृत्तिदोषमिथ्याज्ञानानामुत्तरोत्तरापाये तदनन्तराभावाद् बुद्ध्यादीनां नवानामात्मविशेषगुणानामुच्छेदावसर आत्मनोऽप्युच्छेदः स्यात्, तदव्यतिरिक्तत्वाद्; अतो भिन्नमेवात्मनो ज्ञानं यौक्तिकमिति ।
तथा न संविदित्यादि; मुक्ति:- मोक्षः; न संविदानन्दमयी न ज्ञानसुखस्वरूपा । संविद्-ज्ञानं, आनन्दः- -४ सौख्यम्, ततो द्वन्द्वः, संविदानन्दौ प्रकृतौ यस्यां सा संविदानन्दीमयी, एतादृशी न भवति बुद्धिसुखदुःखेच्छाद्वेषप्रयत्नधर्मासंस्काररूपाणां नव़ानामात्मनो 'वैशेषिकगुणानामत्यन्तोच्छेदो मोक्ष इति वचनात् । चशब्दः "पूर्वोक्ताभ्युपगमद्वयसमुच्चये । ज्ञानं हि क्षणिकत्वादनित्यं सुखं च सप्रक्षयतया सातिशयतया च न विशिष्यते संसारावस्थातः; इति तदुच्छेद आत्मस्वरूपेणावस्थानं मोक्ष इति । प्रयोगश्चात्र नवानामात्मविशेषगुणानां सन्तान:- - अत्यन्तमुच्छिद्यते,
१. किरणावल्यां द्रव्यप्रकरणे पृष्ठ १६१ ।
२. 'तथा' इति कं. पुस्तके नास्ति ।
३. तत्वज्ञानान्मिथ्याज्ञानाऽपाये रागद्वेषमोहाख्या दोषा अपयान्ति, दोषापाये वाङ्मनःकायव्यापाररूपायाः शुभाशुभफलायाः प्रवृत्तेरपायः । प्रवृत्त्यपाये जन्मापायः । जन्मापाये एकविंशतिभेदस्य
दुःखस्याऽपायः ।
४. 'सुखम्' इति क पुस्तके पाठः ।
५. पूर्वोक्तयो: सत्ताज्ञानयोः ।
४०
ॐ ॐ ॐ ॐ ॐ ॐ ॐ स्याद्वादमञ्जरी