________________
यथाऽस्मदादीनां गवादिष्वश्वादिभ्यस्तुल्याऽऽकृतिगुणक्रियाऽवयवोपचयाऽवयवसंयोग निमित्ता प्रत्ययव्यावृत्तिर्दृष्टा-गौः शुक्लः शीघ्रगतिः पनिः ककुमान् महाघण्ट इति; तथाऽस्मद्विशिष्टानां योगिनां-नित्येषु तुल्याकृतिगुणक्रियेषु मुक्ताऽत्ममनस्सु चान्यनिमित्ताऽसम्भवाद्येभ्यो निमित्तेभ्यः प्रत्याधारं विलक्षणोऽयं विलक्षणोऽयमितिप्रत्ययव्यावृत्तिः, देशकालविप्रकृष्टे च परमाणौ स एवायमिति प्रत्यभिज्ञानं च भवति, तेऽन्त्या विशेषाः' इति । अमी च विशेषरूपा एव, न तु द्रव्यत्वादिवत् सामान्यविशेषोभयरूपाः; व्यावृत्तेरेव हेतुत्वात् । .. ____ तथा अयुतसिद्धानामाधार्याधारभूतानामिहप्रत्ययहेतुः सम्बन्धः समवाय इति । अयुतसिद्धयोः परस्परपरिहारेण पृथगाऽऽश्रयाऽनाश्रितयोराऽश्रयाश्रयिभावः इह तन्तुषु पटः इत्यादे : प्रत्ययस्यासाधारणं कारणं समवायः । यद्वशात् स्वकारणसामर्थ्यादुपजायमानं पटाद्याधार्यं तत्त्वाद्याधारे सम्बध्यते; यथा छिदिक्रिया छेद्येनेति; सोऽपि द्रव्यादिलक्षणवैधात् पदार्थान्तरमिति षट् पदार्थाः ।
साम्प्रतमक्षरार्थो व्याक्रियते- सतामषीत्यादि-सतामपि-सद्बुद्धिवेद्यता साधारणानामपि, षण्णां पदार्थानां मध्ये कचिदेवकेषुचिदेव पदार्थेषु; सत्तासामान्ययोगः, स्याद्-भवेत्, न सर्वेषु । तेषामेष वाचोयुक्तिः-सदिति, यतोद्रव्यगुणकर्मसु सा सत्ता इति वचनाद्-यत्रैव सत्प्रत्ययस्तत्रैव सत्ता; सत्प्रत्ययश्चद्रव्यगुणकर्मस्वेव, अतस्तेष्वेव, सत्तायोगः । सामान्यादिपदार्थत्रये तु न; तदभावात् । इदमुक्तं भवति-यद्यपि वस्तुस्वरूपं-अस्तित्वं सामान्यादित्रयेऽपि विद्यते; तथापि तदनुवृत्तिप्रत्ययहेतुर्न भवति; य एव चानुवृत्तिप्रत्ययः स एव सदितिप्रत्यय इति, तदभावाद् न सत्तायोगस्तत्रद्रव्यादीनां पुनस्रयाणां षट्पदार्थसाधारणं वस्तुस्वरूपम् अस्तित्वमपि विद्यते, अनुवृत्तिप्रत्ययहेतुः सत्तासमबन्धोऽप्यस्ति, निःस्वरूपे शशविषाणादौ सत्तायाः समवायाभावात् । ..
सामान्यादित्रिके कथं नानुवृत्तिप्रत्ययः ?। इति चेद्; बाधकसद्भावादिति बूमः । तथाहि-सत्तायामपि सत्तायोगाऽङ्गीकारे-अनवस्था । विशेषेषु पुनस्तदभ्युपगमे-व्यावृत्तिहेतुत्वलक्षणतत्स्वरूपहानिः । समकाये तु तत्कल्पनायां १. 'विशेषसंयोग' इत्यपपाठ: । प्रशस्तपादभाष्येऽनुपलब्धेः । स्याद्वादमञ्जरी KarkikNNA ३९)