________________
महासामान्यमिति चोच्यते; द्रव्यत्वाद्यवान्तरसामान्यापेक्षया महाविषयत्वात् । अपरसामान्यं च द्रव्यत्वादि । एतञ्च सामान्यविशेष इत्यपि व्यपदिश्यते; तथाहिद्रव्यत्वं नवसु द्रव्येषु वर्तमानत्वात् सामान्यम्; गुणकर्मभ्यो व्यावृत्तत्वाद् विशेषः ; ततः कर्मधारये सामान्यविशेष इति । एवं द्रव्यत्वाद्यपेक्षया पृथिवीत्वादिकमपरं, तदपेक्षया घटत्वादिकम् । एवं चतुर्विशतौ गुणेषु वृत्तेर्गुणत्वं सामान्यम्; द्रव्यकर्मभ्यो व्यावृत्तेश्च विशेषः । एवं गुणत्वापेक्षया रूपत्वादिकं, तदपेक्षया नीलत्वादिकम्, एवं पञ्चसु कर्मसु 'वर्तमानत्वात् कर्मत्वं सामान्यम्; द्रव्यगुणेभ्यो व्यावृत्तत्वाद् विशेषः । एवं कर्मत्वापेक्षया उत्क्षेपणत्वादिकं ज्ञेयम् ।
तत्र सत्ता-द्रव्यगुणकर्मभ्योऽर्थान्तरं कया युक्त्या ?, इतिचेद् उच्यते । न द्रव्यंसत्ता, द्रव्यादन्येत्यर्थः; एकद्रव्यवत्त्वाद्-एकैकस्मिन् द्रव्ये वर्तमानत्वादित्यर्थः, द्रव्यत्ववत्यथा द्रव्यत्वं- नवसु द्रव्येषु प्रत्येकं वर्तमानं द्रव्यं न भवति, किन्तु सामान्यविशेषणलक्षणं द्रव्यत्वमेव; एवं सत्ताऽपि । वैशेषिकाणां हि अद्रव्यं वा द्रव्यम्, अनेकद्रव्यं वाद्रव्यम्। तत्राऽद्रव्यं द्रव्यम् आकाशः, कालो, दिगात्मा, मनः, परमाणवः; अनेकद्रव्यं तु व्यणुकादिस्कन्धाः; एकद्रव्यं तु-द्रव्यमेव न भवति; एकद्रव्यवती च सत्ता, इति द्रव्यलक्षणविलक्षणत्वाद न द्रव्यम् । एवं न गुणः-सत्ता; गुणेषु भावाद्, गुणत्ववत् । यदि हि सत्ता गुणः स्याद् न तर्हि गुणेषु वर्तेत; निर्गुणत्वाद् गुणानाम्; वर्तते च गुणेषु सत्ता; सन् गुण इति प्रतीतेः । तथा न सत्ता-कर्म; कर्मसु भावात्, कर्मत्ववत् । यदि च सत्ता कर्म स्याद् न तहि कर्मसु वतेत; निष्कर्मत्वात् कर्मणाम् ; वर्तते च कर्मसु भावः । सत् कर्मेति प्रतीतेः; तस्मात् पदार्थान्तरं सत्ता । ____ तथा विशेषाः-नित्यद्रव्यवृत्तयः, अन्त्याः-अत्यन्तव्यावृत्तिहेतवः, ते द्रव्यादिवैलक्षण्यात् पदार्थान्तरम् । तथा च प्रशस्तकार:- 'अन्त्येषु भवा अन्त्याः ; स्वाऽश्रयविशेषकत्वाद् विशेषाः । विनाशाऽरम्भरहितेषुनित्यद्रव्येष्वण्वाऽकाशकालदिगाऽत्ममनस्सु-प्रतिद्रव्यमेकैकशो वर्तमाना अत्यन्तव्यावृत्ति-बुद्धिहेतवः । १. 'वर्तानात्' इति ह. रा. पुस्तकयोः पाठः । २. - द्रव्यं द्विधा । अद्रव्यमनेकद्रव्यं च । न विद्यते द्रव्यं जन्यतया जनकतया च यस्य तदद्रव्यं
द्रव्यम्। यथाकाशकालादि । अनेकं द्रव्यं जन्यतया च जनकतया च यस्य तदनेकद्रव्यं द्रव्यम् ।
इति ख. पुस्तकटिप्पन्याम् । ३. विशेषप्रकरणे प्रशस्तपादभाष्ये पृ. १६८ । ( ३८
istiniantertakindianki स्याद्वादमञ्जरी) .