________________
नान्यः समवायादिः । इति काव्यार्थः ।।७।। . .
अथ सत्ताभिधानं पदार्थान्तरम्, आत्मनश्च व्यतिरिक्तं ज्ञानाख्यं गुणम्, आत्मविशेष- गुणोच्छेदस्वरूपां च मुक्तिम्, अज्ञानादङ्गीकृतवत: परानुपहसन्नाहसतामपि स्यात् क्वचिदेव सत्ता चैतन्यमौपाधिकमात्मनोऽन्यत् । न संविदानन्दमयी च मुक्ति: सुसूत्रमासूत्रितमत्वदीयैः IIII
वैशेषिकाणां द्रव्यगुणकर्मसामान्यविशेषसमवायाख्याः षट् पदार्थास्तत्त्वतयाऽभिप्रेताः; तत्र "पृथिव्यापस्तेजो वायुराकाश: कालो दिगात्मा मन' इति नव द्रव्याणि । गुणाश्चतुर्विंशतिः; तद्यथा-'२रूपरसगन्धस्पर्शसंख्यांपरिमाणानि पृथक्त्वं संयोगविभागौ परत्वापरत्वे बुद्धिः सुखदुःखे इच्छाद्वेषौ प्रयत्नश्च' इति सूत्रोक्ताः सप्तदश । चशब्दसमुञ्चितांश्च सप्त-द्रवत्वं, गुरूत्वं, संस्कारः, स्नेहो, धर्माधर्मों, शब्दश्च, । इत्येवं चतुर्विंशतिर्गुणाः । संस्कारस्य वेगभावनास्थितिस्थापकभेदाद् त्रैविध्येऽपि- संस्कारत्वजात्यपेक्षया एकत्वात्, शौयौदार्यादीनां चात्रैवान्तर्भावाद् नाधिक्यम् । कर्माणि पञ्च, तद्यथा-"उत्क्षेपणमवक्षेपणमाकुञ्चनं प्रसारणं गमनमिति । गमनग्रहणाद्-भ्रमणरेचनस्यन्दनाद्यविरोधः ।
अत्यन्तव्यावृत्तानां पिण्डानां यतः कारणाद्-अन्योऽन्यस्वरूपानुगमः प्रतीयते, तदनुवृत्तिप्रत्ययहेतुः सामान्यम् । तञ्च द्विविधं परमपरं च । तत्र "परं-सत्ता, भावो, १. वैशेषिकदर्शनस्य प्रथमाध्यायस्य प्रथमाह्रिके सूत्रं ५ । २. वैशेषिकदर्शनस्य प्रथमाध्याये प्रथमाह्रिके सूत्रं ६ (किंचित्पाठभेदः) ३. प्रशस्तपादभाष्ये उद्देशप्रकरणे । ४. उर्ध्वदेशसंयोगकारणं कर्मोत्क्षेपणम् । अधोदेशसंयोगकारणं कर्मापक्षेपणम् । वक्रत्वापादकं
कर्माकुञ्चनम् । ऋजुत्वापादकं कर्म प्रसारणम् अनियंतदेशसंयोगकारणं कर्म गमनम् । प्रशस्तपादभाष्ये ।
उद्देशप्रकरणे । ५. 'द्रव्यादित्रिकवृत्तिस्तु सत्ता परतयोच्यते' । कारिकावली प्रत्यक्षखण्डे का. ८ । स्याद्वादमञ्जरीsanilunia ३७)