________________
इहेतिप्रत्ययसाध्यः समवायत्वाभिसम्बन्धः, तत्साध्यश्च समवाय इति ।
तदेतद् न 'विपश्चिञ्चमत्कारकारणम्; यतोऽत्रापि जातिरुद्भवन्ती केन निरुध्यते ?।. व्यक्तेरभेदेनेति चेत् । न । तत्तदवच्छेदकवशात् तद्भेदोपपतौ व्यक्तिभेदकल्पनाया दुर्निवारत्वात् । अन्यो घटसमवायोऽन्यश्च पटसमवाय इति व्यक्त एव समवायस्यापि व्यक्तिभेद इति; तत्सिद्धौ सिद्ध एव जात्युद्भवः । तस्मादन्यत्रापि मुख्य एव समवायः; इहप्रत्ययस्योभयत्राप्यव्यभिचारात् ।
तदेतत्सकलं . सपूर्वपक्षं समाधानं मनसि निधाय सिद्धान्तवादी प्राह न गौणभेद इति-गौण इति योऽयं भेदः-स नास्ति; गौणलक्षणाभावात् । तल्लक्षणं चेत्थमाचचक्षते
'अव्यभिचारी मुख्योऽविकलोऽसाधारणोऽन्तरङ्गश्च । विपरीतो गौणोऽर्थः सति मुख्य धीः कथं गौणे ? ॥१॥'
तस्माद् धर्मधर्मिणोः सम्बन्धने मुख्यः समवायः, समवाये च समवायत्वाभिसम्बन्धे गौण इत्ययं भेदो नानात्वं नास्तीति भावार्थः । .. किञ्च योऽयमिह तन्तुषु पट इत्यादिप्रत्ययात् समवायसाधनमनोरथः- स खल्वनुहरते नपुंसकादपत्यप्रसवमनोरथम्; इह तन्तुषु पट इत्यादेर्व्यवहारस्यालौकिकत्वात्; "पांशुलपादानामपि इह पटे. तन्तव इत्येव प्रतीतिदर्शनात्; इह भूतले घटाभाब इत्यत्रापि समवायप्रसङ्गात् ।
अत एवाह-अपि च लोकबाध इति-अपि चेति-दूषणाभ्युञ्चये, लोकःप्रामाणिक लोकः, सामान्यलोकश्च; तेन बाधो-विरोधः, लोकबाध; तदप्रतीतव्यवहारसाधनात्; बाधशब्दस्य 'ईहाद्याः५ प्रत्ययभेदतः' इति पुंस्त्रीलिङ्गता । तस्माद्धर्मधर्मिणो- रविष्वग्भावलक्षण एव सम्बन्धः प्रतिपत्तव्यो १. 'विपचिच्चेत' । इति ह. रा. पुस्तकयोः पाठः । २. 'व्यक्तेरभेदस्तुल्यत्वं संकरोऽथानवस्थितिः । रूपहानिरसम्बन्धो जातिबाधकसंग्रहः' । इति
किरणावल्यामुदयनाचार्यकृतायाम् । ३. अनुहरते-अनुकरोति । ४. पांशुलपादाः-धूलिधूसरपादा अचिरादेवागताः । अप्रकरणज्ञा इत्यर्थः । ५. हैमलिङ्गानुशासने पुंस्त्रीलिङ्गप्रकरणे श्लो. ५ । (३६RAKARMA स्याद्वादमञ्जरी