________________
एवमनित्यत्वापत्तिः; प्रतिवस्तस्वभावभेदादिति । . .
अथ कथं समवायस्य न ज्ञाने प्रतिभानम् ?। यतस्तस्येहेतिप्रत्यः सावधानं साधनम् इह प्रत्ययश्चानुभवसिद्ध एव । इह तन्तुषु पटः, इहात्मनि ज्ञानम्, इह घटे रूपादय इति प्रतीतेरूपलम्भात् । अस्य च प्रत्ययस्य केवलधर्मधर्म्यना-लम्बनत्वादस्ति समवायाख्यं पदार्थान्तरं तद्धेतुः ; इति पराशङ्कामभिसन्धाय पुनराह-इहेदमित्यस्ति मतिश्च वृत्ताविति-इदेहमिति-इहेदमिति आश्रयाश्रयिभाव-हेतुक इहप्रत्ययो वृत्तावप्यस्तिसमवायसंबन्धेऽपि विद्यते । चशब्दोऽपिशब्दार्थः तस्य च व्यवहितः सम्बन्धः, तथैव च व्याख्यातम् ।
इदमत्र हृदयम्-यथा त्वन्मते पृथिवीत्वाभिसंबन्धात् पृथिवी, तत्र पृथिवीत्वं पृथिव्या एव स्वरूपमस्तित्वाख्यं नापरं 'वस्त्वन्तरम् । तेन स्वरूपेणैव समं योऽसावभिसम्बन्धः पृथिव्याः- स एव समवाय इत्युच्यते; ‘प्राप्तानामेव प्राप्तिः समवायः' इति वचनात् । एवं समवायत्वाभिसम्बन्धात् समवाय इत्यपि किं न कल्प्यते ?; यतस्तस्यापि यत् समवायत्वं स्वस्वरूपं, तेन सार्धं सम्बन्धोऽस्त्येव, अन्यथा निःस्वभावत्वात् शशविषाणवदवस्तुत्वमेव भवेत्। ततश्च इह समवाये समवायत्वम् इत्युल्लेखेन इहप्रत्ययः समवायेऽपि युक्त्या घटत एव । ततो यथा पृथिव्यां पृथिवीत्वं समवायेन समवेतं, एवं समवायेऽपि समवायत्वं समवायान्तरेण सम्बन्धनीयम्; तदप्यपरेण, इत्येवं दुस्तराऽनवस्थामहानदी । - एवं समवायस्यापि समवायत्वाभिसम्बन्धे युक्त्या उपपादिते, साहसिक्यमालम्ब्य पुनः पूर्वपक्षवादी वदति-ननु पृथिव्यादीनां पृथिवीत्वाद्यभिसम्बन्धनिबन्धनं समवायो मुख्यः, तत्र त्वतलादिप्रत्ययाभिव्यङ्ग्यस्य सङ्गहीतसकलाऽवान्तरजातिलक्षणव्यक्तिभेदस्य सामान्यस्योद्भवात् । इह तु समवायस्यैकत्वेन व्यक्तिभेदाभावे जातेरनुद्भूतत्वाद् गौणोऽयं युष्मत्परिकल्पित
१. 'वस्त्वन्तरम्' इति ख. पुस्तके नास्ति । २. 'यतो यट्या' इति घ. पुस्तके पाठ: । ३. 'समवायेऽपि समवायत्वमेवम्' इति रा. पुस्तके पाठः । ४. 'अपि' इति क. पुस्तके नास्ति ।
स्याद्वादमञ्जरी
A
nirudhir
३५)