________________
क इव सुखावहः परेषाम्' इत्यादि । ततश्च धर्मधर्मिणोः 'अतीवभेदेएकान्तभिन्नत्वेऽङ्गीक्रियमाणे, स्वभावहानेर्धर्मधर्मित्वं न स्यात् - अस्य धर्मिण इमे धर्माः, येषां च धर्माणामयमाश्रयभूतो धर्मी इत्येवं सर्वप्रसिद्धो धर्मधर्मिव्यपदेशो न प्राप्नोति । तयोरत्यन्तभिन्नत्वेऽपि तत्कल्पनायां पदार्थान्तरं धर्माणामपि विवक्षितधर्मधर्मित्वापत्तेः ।
एवमुक्ते सति परः प्रत्यवतिष्ठते वृत्त्यास्तीति अयुतसिद्धानामाधार्याधार भूतानामिहप्रत्ययहेतुः सम्बन्धः समवायः; स च समवचनात् समवाय इति, द्रव्यगुण- कर्मसामान्यविशेषेषु पञ्चसु पदार्थेषु वर्तनाद् वृत्तिरिति चाख्यायते । तया वृत्त्या समवायसम्बन्धेन तयोर्धर्मधर्मिणोः - इतरेतरविनिर्लुठितत्वेऽपि धर्मधर्मिव्यपदेश इष्यते; इति नानन्तरोक्तो दोष इति ।
-
,
'अत्राचार्यः समाधत्ते चेदिति यद्येवं तव मतिः-सा प्रत्यक्षप्रतिक्षिप्ता, यतो न त्रितयं चकास्ति । अयं धर्मी इंमे चास्य धर्माः, अयं चैतत्सम्बन्धनिबन्धनं समवाय इत्येतत् त्रितयं वस्तुत्रयं न चकास्ति - ज्ञानविषयतया न प्रतिभासते । यथा किल शिलाशकलयुगलस्य मिथोऽनुसन्धायकं रालादिद्रव्यं तस्मात् पृथक् तृतीयतया प्रतिभासते; नैवमत्र समवायस्यापि प्रतिभानम्', किन्तु द्वयोरेव धर्मधर्मिणों; इति शपथप्रत्यायनीयोऽयं समवाय इति भावार्थः ।
•
किञ्च, अयं तेन वादिना एको, नित्यः, सर्वव्यापकः अमूर्तश्च परिकल्प्यते । ततो यथा घटाश्रिताः पाकजरूपादयो धर्माः समवायसम्बन्धेन घटे समवेताः तथा किं न पंटेऽपि ?; तस्यैकत्वनित्यत्वव्यापकत्वैः सर्वत्र तुल्यत्वात् ।
३४
-
यथाकाश एको, नित्यो, व्यापकः, अमूर्तश्च सन्- सर्वैः सम्बन्धिभिर्युगपदविशेषेण सम्बध्यते, तथा किं नायमपीति ? । विनश्यदे क वस्तु समवायाभावे च समस्तवस्तुसमवायाऽभावः प्रसज्यते । तत्तदवच्छेदकभेदाद् नायं दोष इति चेत्,
१. 'धर्मधर्मिणोरतीवभेदे' इति तथाग्रे 'स्वभावहाने:' इति रा. पुस्तके नास्ति । २. 'प्रतिभासनम्' इति क . पुस्तके पाठः ।
३. 'न' इति क पुस्तके पाठः ।
ॐ ॐ ॐ ॐ स्याद्वादमञ्जरी