________________
परदुःखप्रहाणेच्छा हि कारुण्यम् ? । ततः प्राक् सर्गाज्जीवानामिन्द्रियशरीरविषयानुत्पत्तो दुःखाभावेन कस्य प्रहाणेच्छा कारुण्यम् । सर्गोत्तरकाले तु दुःखिनोऽवलोक्य कारुण्याभ्युपगमे दुरुत्तरमितरेतराश्रयम् । कारुण्येन सृष्टिः सृष्ट्या च कारुण्यम् इति नास्य जगत्कर्तृत्वं कथमपि सिद्धयति ।
तदेवमेवंविधदोषकलुषिते पुरुषविशेषे यस्तेषां सेवाहेवाक:- स खलु केवलं बलवन्मोहविडम्बनापरिपाक इति । अत्र च यद्यपि मध्यवर्तिनो नकारस्य घण्टालालान्यायेन योजनादर्थान्तरमपि स्फुरति-यथा इमाः कुहेवाकविडम्बनास्तेषां न स्युर्येषां त्वमनुशासकः इति; तथापि सोऽर्थः सहृदयैर्न हृदये धारणीयः; अन्ययोगव्यवच्छेदस्याधिकृतत्वात् । इति काव्यार्थः ।।६।।
अथ चैतन्यादयो रूपादयश्च धर्मा आत्मादेर्घटादेश्च धर्मिणोऽत्यन्तं व्यतिरिक्ता अपि समवायसम्बन्धेन संबद्धाः सन्तो धर्मधर्मिव्यपदेशमश्नुवते, "इति तन्मतं दूषयन्नाह
न धर्मधर्मित्वमतीवभेदे वृत्त्याऽस्ति चेद् न त्रितयं चकास्ति । इहेदमित्यस्ति मतिश्च वृत्तौ, न गौणभेदोऽपि च लोकबाधः ||७||
धर्मधर्मिणोरतीवभेदे-अतीवेत्यत्र-इवशब्दो वाक्यालंकारे तं च प्रायोऽतिशब्दात्, किंवृत्तेश्च प्रयुञ्जते शाब्दिकाः । यथा-'६आवर्जिता किञ्चिदिव स्तनाभ्याम्', 'उद्वृत्तः
१. 'केवलं' इति क, पुस्तके नास्ति । २. मध्यमणिन्यायः, देहलीदीपकन्यायस्तद्वदेवायं घण्टालालान्याय उपयुज्यते । ३. उत्पन्नं द्रव्यं क्षणमगुणं निष्क्रियं च तिष्ठतीति समयात् गुणानां गुणिनो व्यतिरिक्तत्वम् । ४. 'अयुतसिद्धानामाधार्याधारभूतानां यः संबन्ध इहप्रत्ययहेतुः स समवायः' इति प्रशस्तपादभाष्ये __समवायप्रकरणे । ५. इति पदं रा. पुस्तके नास्ति । ६. कुमारसम्भवमहाकाव्ये तृतीयसर्गे श्लो. ५४ । ७. शिशुपालवधमहाकाव्ये । स्याद्वादमञ्जरी naukarukukku
३३)