________________
तथा नित्यत्वमपि तस्य स्वगृह एव प्रणिगद्यमानं हृद्यम्, । स खलु नित्यत्वेनैकरूपः सन्, त्रिभुवनसर्गस्वभावोऽतत्स्वभावो वा ? प्रथमविधायां जगन्निर्माणात् कदाचिदपि नोपरमेत; तदुपरमे तत्स्वभावत्वहानि: । एवं च सर्गक्रियाया अपर्यवसानाद् - एकस्यापि कार्यस्य न सृष्टिः । घटो हि 'स्वारम्भक्षणादारभ्य परिसमाप्तेरूपान्त्यक्षणं यावद् निश्चयनयाभिप्रायेण न घटव्यपदेशमासादयति; जलाहरणाद्यर्थक्रियायामसाधकतमत्वात् ।
अतत्स्वभावपक्षे तु-न जातु जगन्ति सृजेत् तत्स्वभावायोगाद्, गगनवत् । अपि च तस्यैकान्तनित्यस्वरूपत्वे सृष्टिवत् संहारोऽपि न घटते । नानारुपकार्यकरणेऽ-नित्यत्वापत्तेः । स हि येनैव स्वभावेन जगन्ति सृजेत् तेनैव तानि संहरेत्, स्वाभावान्तरेण वा ? । तेनैव चेत्; सृष्टिसंहारयोर्यौगपद्यप्रसङ्गः, स्वभावाभेदात्; एकस्वभावात् कारणादनेकस्वभावकार्योत्पत्तिविरोधात् । स्वभावान्तरेण चेद् नित्यत्वहानिः स्वभावभेद एव हि लक्षणमनित्यतायाः । यथा पार्थिवशरीरस्याहारपरमाणुसहकृतस्य प्रत्यहमपूर्वापूर्वोत्पादेन स्वभावभेदादनित्यत्वम् । इष्टश्च भवतां सृष्टिसंहारयोः शम्भौ स्वभावभेदः रजोगुणात्मकतया सृष्टी, तमोगुणात्मकतया संहरणे, सात्त्विकतया च स्थितो, तस्य व्यापारस्वीकारात् । एवं चावस्थाभेदः; तद्भेदे चावस्थावतोऽपि भेदाद् नित्यत्वक्षतिः ।
अथाऽस्तु नित्य:, तथापि कथं सततमेव सृष्टौ न चेष्टते ?। इच्छावशात् "चेत्, ननु ता अपीच्छाः स्वसत्तामात्रनिबन्धनात्मलाभाः सदैव किं न प्रवर्तयन्तीति स एवोपालम्भः ?। तथा शम्भोरष्टगुणाधिकरणत्वे, कार्यभेदानुमेयानां तदिच्छानामपि विषमरूंपत्वाद् नित्यत्वहानिः केन वार्य ? इति ।
किञ्च, प्रेक्षावतां प्रवृत्तिः स्वार्थकारूण्याभ्यां व्याप्ता ततश्चायं जगत्सर्गे व्याप्रियतेस्वार्थात्, कारुण्याद् वा ? । न तावत् स्वार्थात् तस्य कृतकृत्यत्वात् । नच कारुण्यात्;
१. विचारासहमित्यर्थः ।
२. 'स्वारम्भण' इति कं. पुस्तके पाठः ।
३. 'सः' इत्याधिकं रा. पुस्तके ।
४. 'सततसृष्टौ ' इति क पुस्तके पाठः ।
५. 'चेत्' इति क . पुस्तके नास्ति ।
६. बुद्धीच्छाप्रयत्नसंख्यापरिणामपृथक्त्वसंयोगविभागाख्या अष्टौ गुणाः ।
३२
(स्याद्वादमञ्जरी