________________
तस्मादपहरन् ब्राह्मणः स्वमादत्ते, स्वमेव ब्राह्मणो भुङ्क्ते स्वं वस्ते, स्वं ददाति' इति । तथा- 'अपुत्रस्य गतिर्नास्ति' इति लपित्वा,
'अनेकानि सहस्राणि कुमारब्रह्मचारिणाम् ।
दिवंगतानि विप्राणामकृत्वा कुलसन्ततिम्' । । १ । । इत्यादि ।
कियन्तो वा दधिमाषभोजनात् कृपणा विवेच्यन्ते; तदेवमागमोऽपि न तस्य सर्वज्ञतां वक्ति । किञ्च सर्वज्ञः सन्नसौ चराचरं चेद् विरचयति, तदा जगदुपप्ल वकरणवैरिणः पश्चादपि कर्तव्यनिग्रहान् सुरवैरिणः, एतदंधिक्षेपकारिणश्चास्मदादीन् किमर्थं सृजति इति । तन्नायं सर्वज्ञः ।
तथा स्ववशत्वं-स्वातन्त्र्यं; तदपि तस्य न क्षोदक्षमम् - सहि यदि नाम स्वाधीनः सन् विश्वं विधत्ते, परमकारुणिकश्च त्या वर्ण्यते, तत् कथं सुखितदुःखिताद्यवस्थाभेदवृन्दस्थपुटितं घटयति भुवनम् एक न्तशर्मसंपत्कान्तमेव तु किं न निर्मिमीते ? । अथ जन्मान्तरोपार्जिततत्तत्तदायशुभाशुभकर्मप्रेरितः सन् तथा करोतीति, दत्तस्तर्हि 'स्ववशत्वाय जलाञ्जलिः ।
कर्मजन्ये च त्रिभुवनवैचित्र्ये शिपिविष्टहेतुकविष्टपसृष्टिकल्पनायाः कष्टैकफलत्वात्- अस्मन्मतमैवाङ्गीकृतं प्रेक्षावता । तथा चायातोऽयं 'घट्टकुट्यां प्रभातम्' इति न्यायः । किञ्च, प्राणिनां धर्माधर्मावपेक्षमाणश्चेदयं सृजति प्राप्तं तर्हि 'यदयमपेक्षते- तन्न करोतीति । न हि कुलालो दण्डादि करोति । एवं कर्मापेक्षश्चेदीश्वरो जगत्कारणं स्यात् तर्हि कर्मणीश्वरत्वम्, ईश्वरोऽनीश्वरः स्यादिति ।
१. स्ववशत्वं नष्टमित्यर्थः ।
२. शिपिविष्टाः - महेश्वरः । 'स्पायद्योमकेशः शिपिविष्टभैरवौ' । इत्यभिधानचिन्तामणौ द्वितीयकाण्डे श्लो. ११२ ।
३. विष्टपं विश्वं 'स्याल्लोकोविष्पं विश्वम्' इत्याभिधानचिन्तामणौ षष्टकाण्डै श्लो. १ ।
४. उद्देश्यासिद्धिर्यत्र प्रतीयते तत्रायं न्याय उपयुज्यते । न्यायार्थः कश्चित् शाकटिको मध्येमार्ग राजदेयं द्रव्यं दातुमनिच्छन्मार्गान्तरं समासादयति परं रात्रौ भ्रष्टमार्गः प्रभाते राजग्राह्यद्रव्यग्राहिकुटीसविधावेवागच्छति । तेन तदुद्देश्यं न सिध्यतीति ।.
(स्याद्वादमञ्जरी में और
४ ३१