________________
ते च ताल्वादिव्यापारजन्या: स च शरीरे एव सम्भवी; शरीराभ्युपगमे च तस्य पूर्वोक्ता एव दोषाः । अन्यकृतश्चेत् सोऽन्यः सर्वज्ञोऽसर्वज्ञो वा ?। सर्वज्ञत्वे-तस्य द्वैतापत्त्या प्रागुक्ततदेकत्वाभ्युपगमबाधः; तत्साधकप्रमाणचर्यायामनवस्थापातश्च । असर्वज्ञश्चेत्-कस्तस्य वचसि विश्वासः ?।
अपरं च भवदभीष्ट आगमः प्रत्युत तत्प्रणेतुरसर्वज्ञत्वमेव साधयति; पूर्वापरविरुद्धार्थवचनोपेतत्वात् । तथाहि-'न' हिंस्यात् सर्वभूतानि' इति प्रथममुक्त्वा , पश्चात् तत्रैव पठितम्'षट्शतानि नियुज्यन्ते पशूनां मध्यमेऽहनि ।
अश्वमेधस्य वचनान्यूनानि पशुभिस्त्रिभिः ।' तथा 'अग्नीषोमीयं पशुमालभेत', 'सप्तदश प्राजापत्यान् पशूनालभेत' इत्यादि वचनानि कथमिव नं पूर्वापरविरोधमनुरुध्यन्ते ? । तया-'नानृतं ब्रूयात्' इत्यादिनाऽनृतभाषणं प्रथमं निषिध्य पचात् 'ब्राह्मणार्थेऽनृतं ब्रूयात्' इत्यादि । तथा 'न' नर्मयुक्तं वचनं हिनस्ति न स्त्रीषु राजन्न विवाहकाले ।
प्राणात्यये सर्वधनापहारें पानृतान्याहुरपातकानि' ।।१।।
तथा 'परद्रव्याणि लोष्ठवत्' इत्यादिना अदत्तादानमनेकधा निरस्य, पश्चादुक्तम्'यद्यपि ब्राह्मणो हठेन परकीयमादत्ते, छलेन वा, तथापि तस्य नादत्तादानम्, यतः सर्वमिदं ब्राह्मणेभ्यो दत्तम्; ब्राह्मणानां तु दौर्बल्याद् वृषलाः परिभुञ्जते; १. 'पाताव' इति क. घ. पुस्तकयोः पाठः । २. छां. ८ अ. । ३. ए. अ. ६-३ । ४. तै. सं. अ. १ अ. ४ . ५. 'उद्वाहकाले रतिसम्प्रयोगे प्राणात्यये सर्वधनापहारे । विप्रस्य चार्थे ह्यनृतं वदेयुः पञ्चानृतान्याहुरपातकानि ।।३६।।'
वसिष्ठंधर्मसूत्रम् अ. १६ सू. ३६ । . ६. अत्र धर्ममिति पदमध्याहत्य हिनस्तीति क्रियापदेन तस्य संबन्धः कर्तव्यः । ७. मनुस्मृतौ अ. १ श्लो. १०१ इत्यत्राल्पांशेनैतत्समम् । ( autarinitiatinidhikari स्याद्वादमञ्जरी