________________
अथ सर्वगः सर्वज्ञ इति व्याख्यातम् । तत्रापि प्रतिविधीयते । ननु तस्य सार्वज्यं केन प्रमाणेन गृहीतम् ?, प्रत्यक्षेण, परोक्षेण वा ? । न तावत् प्रत्यक्षेण; तस्येन्द्रियार्थसन्निकर्षोत्पन्नतयाऽतिन्द्रिय ग्रहणाऽसामर्थ्यात् । नापि परोक्षेण; तद्धि अनुमानं, शाब्दं वा स्यात् ? न तावदनुमानम्। तस्य लिङ्गिलिङ्गसम्बन्धस्मरणपूर्वकत्वात्; न च तस्य सर्वज्ञत्वेऽनुमेये किञ्चिदव्यभिचारि लिङ्गं पश्यामः; तस्यात्यन्तविप्रकृष्टत्वेन तत्प्रतिबद्धलिङ्गसम्बन्धग्रहणाभावात् ।
अथ तस्य सर्वज्ञत्वं विना जगद्वैचित्र्यमनुपपद्यमानं-सर्वज्ञत्वमर्थादापादयतीति चेत् । न । अविनाभावाभावात्-न हि जगद्वैचित्री तत्सार्वज्यं विनाऽन्यथा नोपपन्ना । द्विविधं हि जगत्-स्थावरजङ्गमभेदात् । तत्र जङ्गमानां वैचित्र्यंस्वोपात्तशुभाशुभकर्मपरिपाकक्शेनैव । स्थावराणां तु सचेतनानामियमेव गतिः । अचेतनानां तु तदुपभोगयोग्यसाधनत्वेनानादि- कालसिद्धमेव वैचित्र्यमिति ।
नाऽऽप्यागमस्तत्साधकः, स हि-तत्कृतोऽन्यकृतो वा स्यात् ? । तत्कृत एवं चेत् तस्य सर्वज्ञतां साधयति-तदा तस्य महत्त्वक्षतिः स्वयमेव स्वगुणोल्कीर्तनस्य महतामनधिकृतत्वात् । अन्यञ्च, तस्य शास्त्रकर्तृत्वमेव,न युज्यते शास्त्रं हि वर्णात्मकम्
तदेवं चिरादवबुध्यमानेन परेणाभिहिते सत्याचार्यः सम्यगुत्तरमाह-न ज्ञानं यस्मिन्देशे ज्ञेयमस्ति तस्मिन्देशे गत्वा ज्ञेयं परिच्छिनत्ति, नवरं किन्तु आत्मस्थमेव सत् तत् दूरदेशस्थस्यापि ज्ञेयस्य परिच्छेदकमचिन्त्यशक्तेर्विज्ञेयम् ।।३७१।। अमुमेवार्थ दृष्टान्तेन भावयति-. लोहस्याकर्षक उपल: लोहोपलः । अत्राकृष्याकर्षकभावलक्षणसम्बन्धे षष्ठी । यथा राज्ञः पुरुष इत्यत्र पोष्यपोषकभावे । तस्य शक्तिरात्मस्थैव सती भिन्नदेशमपि भिन्नस्थ (लस्थ) मपि लोहमाकृषन्ती दृश्यन्ते, 'न च दृष्टेऽनुपपन्नं नाम' । अतीन्द्रियत्वाच्छक्तीनां कथं तस्या दर्शनमिति चेत् । अत आह । कार्यप्रत्यक्षा कार्यं लोहाकर्षणलक्षणं प्रत्यक्षं यस्याः सा कार्यप्रत्यक्षा । एतदुक्तं भवति तत्कार्यस्य प्रत्यक्षत्वात् सापि दृश्यत इति व्यवह्रियत इत्यदोषः ।।३७२।। तदेवं दृष्टान्तमभिधाय दार्टान्तिके योजनामाहएवं लोहोपलशक्तिरिव 'इह' जगति 'हंदीति' परामन्त्रणे, यदि ज्ञानरूपा । शक्तिरात्मस्थैव सती सम्यक् लोकान्तं परिच्छिनत्ति ततः को नु अत्र विरोधो भवेत् ?, नैव कश्चिदिति भावः ।।३७३ ।।'
इति धर्मसंग्रहण्याम् । १. 'अतीन्द्रियार्थ' च. पुस्तके पाठः ।। स्याद्वादमञ्जरीMARATrirint २९)