________________
समीचीनः ? नहि भवतोऽप्यशुचिज्ञानमात्रेण तद्रसास्वादाऽनुभूतिः । तद्भावे हि स्रक्चन्दनाङ्गना- रसवत्यादिचिन्तनमात्रेणैव तृप्तिसिद्धौ तत्प्राप्तियत्नवैफल्यप्रसक्तिरिति ।
यत्तु ज्ञानात्मना सर्वगतत्वे सिद्धसाधनं प्रागुक्तम्; तच्छक्तिमात्रमपेक्ष्य मन्तव्यम् । तथा च वक्तारो भवन्ति-अस्य मतिः सर्वशास्त्रेषु प्रसरति इति । न च ज्ञानं प्राप्यकारि; तस्यात्मधर्मत्वेन बहिनिर्गमाभावात् । बहिनिर्गमे चात्मनोऽचैतन्यापत्त्या अजींवत्वप्रसङ्गः; न हि धर्मो धर्मिणमतिरिच्य क्वचन केवलो विलोकितः । यच्च परे दृष्टान्तयन्ति-यथा सूर्यस्य किरणा गुणरूपा अपि सूर्याद निष्क्रम्य भुवनं भासयन्ति, एवं ज्ञानमप्यात्मनः सकाशाद् बहिनिर्गत्य प्रमेयं परिच्छिनत्तीति । तत्रेदमुत्तरम्-किरणानां गुणत्वमसिद्धम्; तेषां तैजसपुद्रलमयत्वेन द्रव्यत्वात् । यश्च तेषां प्रकाशात्मा गुणः, स तेभ्यो न जातु पृथग् भवतीति । तथा च धर्मसङ्ग्रहण्यां श्रीहरिभद्राचार्यपादाः
किरणा' गुणा न दब्वं, तेसि पगासो गुणो, णवा दव्वं ।। जं नाणं आयगुणो कहमदव्वो स अन्नत्थ ? ।।३७०॥ । गन्तुं ण परिच्छिन्दइ नाणं णेयं तयम्मि देसम्मि । आयत्थं चिय, नवरं अचिंतसत्ती उ विनेयं ।।३७१।। लोहोवलस्स सत्ती आयत्था चेव भित्रदेसंपि । लोहं आंगरिसंती दीसह कजपञ्चक्खा ।।३७२।। एवमिह नाणसत्ती आयत्था चेव हंदि लोगंतं । जइ परिच्छिंदइ सम्मं को णु विरोहो भवे एत्थं ? ।।३७३।।
इत्यादि । १. 'एव' इत्याधिक क. पुस्तके । २. अत्र मलयगिरीयवृत्तिः- अधुना प्रकारान्तरेण परो दृष्टान्तदान्तिकयोवैषम्यमाह-ननु किरणा
गुणा न भवन्ति किन्तु द्रव्यं यस्तु तेषां किरणानां प्रकाशः स गुणो, न चासौ प्रकाशरूपो गुणोऽद्रव्यो द्रव्यदेशादन्यत्र वर्तते, ज्ञानं पुनरिदं यत् यस्मादात्मगुणस्ततः स कथमद्रव्यो द्रव्यरहितः सन् अन्यत्र आत्मदेशपरित्यागेन भवेत् ?, नैव भवेदिति भावः । तस्माल्लोकान्ते ज्ञानदर्शनादयमात्मा
सर्वव्यापी प्रतीयत एव ।।३७०।। (२८
स्याद्वादमञ्जरी