________________
कलत्रादिपरित्यजनेन शून्या रण्यानीसेवनामिवा भासते । · तथा सर्वगतत्वमपि तस्य नोपपन्नम्-तद्धि शरीरात्मना, ज्ञानात्मना वा स्यात् ? । प्रथमपक्षे तदीयेनैव देहेन जगत्त्रयस्य व्याप्तत्वाद् इतरनिर्मेयपदार्थानामाश्रयानवकाशः । द्वितीयपक्षे तु सिद्धसाध्यता; अस्माभिरपि निरतिशयज्ञानात्मना. परमपुरूषस्य जगत्रयक्रोडीकरणाभ्युपगमात् । यदि परमेवं भवत्प्रमाणीकृतेन वेदेन विरोध:तत्र हि शरीरात्मना सर्वगतत्वमुक्तम्-'विश्वतश्चक्षुरुत विश्वतोमुखो विश्वयतः पाणिरुत विश्वतः पाद्' इत्यादिश्रुतेः । . ___ यच्चोक्तं-तस्य प्रतिनियतदेशवर्तित्वे। त्रिभुवनगतपदार्थानामनियतदेशवृत्तीनां यथावनिर्माणानुपपत्तिरिति । तत्रेदं पृच्छयते-स जगत्त्रयं निर्मिमाणस्तक्षादिवत् साक्षाद् देहव्यापारेण निर्मिमीते, यदि वा सङ्कल्पमात्रेण ? । आद्ये पक्षेएकस्यैव भूभूधरादेविधाने अक्षोदीयसः कालक्षेपस्य सम्भवाद् बंहीयसाप्यनेहसा . न परिसमाप्तिः । द्वितीयपक्षे तु सङ्कल्पमात्रेणैव कार्यकल्पनायां नियतदेशस्थायित्वेऽपि न किञ्चिद् दूषणमुत्पश्यामः । नियतदेशस्थायिनां सामान्यदेवानामपि संकल्पमात्रेणैव तत्तत्कार्यसम्पादनप्रतिपत्तेः ।
किञ्च तस्य सर्वगतत्वेऽङ्गीक्रियमाणे-अशुचिषु निरन्तरसन्तमसेषु नरकादिस्थानेष्वपि * तस्य वृत्तिः प्रसज्यते; तथा चानिष्टापत्तिः । अथ युष्मत्पक्षेऽपि यदा ज्ञानात्मना सर्व
जगत्रयं व्याप्नोतीत्युच्यते, तदाशुचिरसास्वादादीनामप्युपालम्भसंभावनात् नरकादि'दुःखस्वरूपसंवेदनात्मकतया दुःखानुभवप्रसङ्गाञ्च, अनिष्टापत्तिस्तुल्यैवेति चेत्; तदेतदुपपत्तिभिः प्रतिकर्तुमशक्तस्य धूलिभिरिवावकरणम् । यतो ज्ञानमप्राप्यकारि स्वस्थानस्थमेव विषयं परिच्छिनत्ति, न पुनस्तत्र गत्वा, तत्कुतो भवदुपालम्भः १. महदरण्यमरण्यानी । २. 'आभासते' इति रा. पुस्तके नास्ति । ३. शुक्लजुर्वेदमाध्यन्दिनसंहितायां सप्तदशेऽध्याये १९ मन्त्रे । ४. यद्वा देहस्य सर्वगतत्वेनावकाशं विना व्यापारासंभवात्-इत्यधिंक क. पुस्तके । । ५. 'उचितकार्य' इति क. पुस्तके पाठः । ६. 'प्रतिपत्तिः' इति क. पुस्तके पाठः । ७. 'स्थलेष्वपि' इति रा. पुस्तके पाठः । ८. 'अवकिरणम्' इति क. पुस्तके पाठः । (स्याद्वादमञ्जरी in
d india २७