________________
अदृश्यशरीरत्वं वान्ध्येयादिवत्, किंवाऽस्मदाद्यदृष्टवैगुण्यात् पिशाचादिवदिति निश्चयाभावात् । .
२अशरीरश्चेत् तदा दृष्टान्तदाान्तिकयोर्वेषम्यम्-घटादयो हि कार्यरूपाः सशरीरकर्तृका दृष्टाः अशरीरस्य च सतस्तस्य कार्यप्रवृत्तौ कुतः सामर्थ्यम् ?, आकाशादिवत्। तस्मात् सशरीराशरीरलक्षणे पक्षद्वयेऽपि कार्यत्वहेतोप्त्यसिद्धिः ।
किञ्च, त्वन्मतेन कालात्ययापदिष्टोऽप्ययं हेतुः धयेकदेशस्य तरुविधुदभ्रादेरिदानीम- प्युत्पद्यमानस्य विधातुरनुपलभ्यमानत्वेन प्रत्यक्षबाधितधर्म्यनन्तरं हेतुभणनात् । तदेवं न कश्चिद् जगतः कर्ता । एकत्वादीनि तु जगत्कर्तृत्वव्यवस्थापनायाऽऽनीयमानानि तद्विशेषणानि षण्ढं प्रति कामिन्या रूपसंपन्निरूपणप्रायाण्येव; तथापि तेषां विचारासहत्वख्यापनार्थं किञ्चिदुच्यते ।
तत्रैकत्वचर्चस्तावत्-बहुनामेककार्यकरणे वैमत्यसम्भावना इति, नायमेकान्तःअनेककीटिकाशतनिष्पाद्यत्वेऽपि शक्रमः, अनेकशिल्पिकल्पितत्वेऽपि प्रासादादीनां, नैकसरघानिर्वतितत्वेऽपि५ मधुच्छत्रादीनां चैकरूपताया ६अविगानेनोपलम्भात् । अथैतेष्वप्येक एवेश्वरः कर्तेति ब्रूषे; एवं चेद् भवतो भवानीपतिं प्रति निष्प्रतिमा वासना; तर्हि कविन्दकुम्भकारादितिरस्कारेण पटघटादीनामापि कर्ता स एव किं न कल्प्यते ? । अथ तेषां प्रत्यक्षसिद्धं कर्तृत्वं कथमपगोतुं शक्यम् ? तर्हि कीटिकादिभिः किं तव "विराद्धं ?, यत् तेषामसदृशतादृशप्रयाससाध्यं कर्तृत्वमेकहेलयैवापलप्यते । तस्माद् वैमत्यभयाद् 'महेशितुरे कत्वकल्पना- भोजनादिव्ययभयात् कृपणस्यात्यन्तवल्लभपुत्र
. १. वन्ध्याया अपत्यं पुमान् वान्ध्येयः । वन्ध्यापत्यमित्यर्थः । .. २.. 'अशरीरश्चेद्विरुद्धो हेतुः' इति क. पुस्तके पाठः । ततः परं 'वैषम्यम्' इत्यतेत्पर्यन्तं क. पुस्तके
न दृश्यते । ३. अशरीरोऽपीश्वरो न भवति कन्दलीकारवचनात् । यतो गृह्णातीश्वरः शरीरं दर्शयति चान्तरा
विभूतीरिति । ख. पुस्तकें टिप्पनी । ' ४. शक्रमूर्धः-वल्मीकस्य । ५. सरघा-मधुमक्षिका । ६. अनिन्दया । ७. निरूपमा श्रद्धा । ८. अपरांद्धम् ।
( Ra
i kunti स्याद्वादमञ्जरी