________________
महदुपजनति श्रवणस्थितं शूलमभव्यस्य' इति । अतो वस्तुवृत्त्या न तेषां भगवाननुशासक इति
न चैतावता जगद्गुरोरसामर्थ्य सम्भावना । न हि कालदष्टमनुज्जीवन् समुज्जीवितेतरदष्टको विषभिषगुपालम्भनीय, अतिप्रसंगात् । स हि तेषामेव दोषः । न खलु निखिलभुवनाभोगमवभासयन्तोऽपि भानवीया' भानवः 'कौशिकलोकस्यालोकहेतुतामभजमाना उपालम्भसम्भावनास्पदम्ं । तथा च
श्रीसिद्धसेनः
सद्धर्मबीजवपनानघकौशलस्य यल्लोकबान्धव ! तवापि खिलान्यभूवन् । तन्नाद्भुतं, खगकुलेष्विह तामसेषु सूर्यांशवो मधुकरीचरणावदाताः ॥ ३१ ॥
अथ कथमिव तत् कुहेवाकानां विडम्बनारूपत्वम् ? इति ब्रूमः । यत्तावदुक्तं परैः-क्षित्यादयो बुद्धिमत्कर्तृकाः, कार्यत्वाद् घटवदिति । तदयुक्तम्, व्याप्तेरग्रहणात् । 'साधनं हि सर्वत्र व्याप्तौ प्रमाणेन सिद्धायां साध्यं गमयेत्' इति सर्ववादिसंवादः । स चायं जगन्ति सृजन् सशरीरोऽशरीरो वा स्यात् - सशरीरोऽपि किमस्मदादिवद् दृश्यशरीरविशिष्टः, उन पिशाचादिवददृश्यशरीरविशिष्टः ?। प्रथमपक्षे-प्रत्यक्षबाधः ; तमन्तरेणापि च जायमाने तृणतरुपुरन्दरधनुरभ्रादौ कार्यत्वस्य दर्शनात् प्रमेयत्वादिवत् साधारणानैकान्तिको हेतुः ।
१. भानोः सूर्यस्येमे भानवीया मानवः किरणाः ।
२. कौशिकलोकस्य घूकसमुदायस्य ।
३. द्वितीयद्वात्रिंशिका श्लोक १३ ।
द्वितीयविकल्पे-पुनरदृश्यशरीरत्वे तस्य माहात्म्यविशेषः कारणम्, आहोस्विदस्मदाद्यदृष्टवैगुण्यम् ? । प्रथमप्रकारः " कोशपानप्रत्यायनीयः; तत्सिद्धौ प्रमाणाभावात्, इतरेतराश्रयदोषापत्तेश्च सिद्धे हि माहात्म्यविशेषे तस्यादृश्यशरीरत्वं प्रत्येतव्यम्, तत्सिद्धौ च माहात्म्यविशेषसिद्धिरिति ।
द्वैतीयिकस्तु प्रकारो-न संचरत्येव विचारगोचरें; संशयानिवृत्तेः किं तस्यासत्त्वाद्
४. अनुप्तं क्षेत्रं खिलशब्देनाभिधीयते ।
५.
ܕ.
कोशपानप्रत्यायनीयः - शपथेन विभावनीयः ।
स्याद्वादमञ्जरी बैंकक
I
४ २५