________________
कुत्सिता हेवाकाः-आग्रहविशेषाः कुहेवाकाः कदाग्रहा इत्यर्थः । त एव विडम्बनाःविचार- चातुरीबाह्यत्वेन तिरस्काररूपत्वाद् 'विगोपकप्रकारः; स्युः भवेयुः; तेषां प्रामाणिकापसदानां; येषां हे स्वामिन् त्वं, नानुशासकः-न शिक्षादाता ।
तदभिनिवेशानां विडम्बनारूपत्वज्ञापनार्थमेव पराभिप्रेतपुरुषविशेषणेषु प्रत्येकं तच्छब्दप्रयोगमसूयागर्भमाविर्भावयाञ्चकार स्तुतिकारः; तथा चैकमेव निन्दनीयं प्रति वक्तारो वदन्ति- स मूर्खः, स पापीयान्, स दरिद्र इत्यादि । त्वमित्येकवचनसंयुक्तयुष्मच्छब्द- प्रयोगेण-परमेशितुः परमकारुणिकतयाऽनपेक्षितस्वपरपक्षविभागमद्वितीयं हितोपदेशकत्वं ध्वन्यते ।
अतोऽत्रायमाशयः-यद्यपि भगवानविशेषण सकलजगजन्तुजातहितावहां सर्वेभ्य एव देशनावाचमाचष्टे, तथापि सैव केषाञ्चिद् निचितनिकाचितपापकर्मकलुषिता त्मनां रूचिरूपतया न परिणमते । अपुनर्बन्धकादिव्यतिरिक्तत्वेनायोग्यत्वात् । तथा र कादम्बर्यां बाणोऽपि बभाण-'अपगतमले हि मनसि स्फटिकमणाविव रजनिकरगभस्तयो विशन्ति सुखमुपदेशगणाः । गुरुवचनममलमपि सलिलमिव
<
१. विशेषतया गोपनाप्रकारा इत्यर्थः । 'विक्षेपप्रकाराः' इति च. पुस्तके पाठः । २. 'च' इत्यधिकं क. पुस्तके । ३. 'चैवमेव' इति रा. पुस्तके पाठ: । : ४. 'कल्माषितात्मनाम्' इति क. ख. घ. पुस्तकेषु पाठः । ५. 'पावं ण तिव्वभावा कुणइ ण बहुमन्नई भवं घोरं । उचिअठ्ठीइं च सेवइ सव्वत्थ वि अपुणबन्धोत्ति
इति' ।। इति धर्मसंग्रहे तृतीयाधिकरणे । पापमशुद्धं कर्म तत्कारणत्वाद्धिंसाद्यपि पापम् । तन्नैव तीव्रभावाद्गाढसंक्लिष्टपरिणामात् करोति । अत्यन्तोत्कमिथ्यात्वादिक्षयोपशमेन लब्धात्मनैर्मल्यविशेषत्वात्तीव्र इति विशेषणादापनम् । अतीव्रभावात्करोत्यपि । तथाविधकर्मदोषात् । तथा न बहु मन्यते न बहुमानविषयीकरोति भवं संसारं घोरं रौद्रं घोरत्वावगमात् । तथोचितस्थितिमनुरूपप्रतिपत्तिम् । चशब्दः समुच्चये । सेवते-भजते कर्मलाघवात्सर्वत्रापि । आस्तामेकत्र देशकालावस्थापेक्षया समस्तेष्वपि देवातिथिमातापितृप्रभृतिषु मार्गानुसारिताभिमुखत्वेन मयूरशिशुदृष्टान्तादपुनर्बन्धकः उक्तनिर्वचनो जीव इत्येवंविधक्रियालिंगो भवतीति । अभिधानराजेन्द्रकोशे प्रथमभागे पृ. ६०७ ।।
(२४isitind
स्याद्वादमञ्जरी