SearchBrowseAboutContactDonate
Page Preview
Page 49
Loading...
Download File
Download File
Page Text
________________ किं स्वयमुत्पादितस्वतनुर्न प्रतीयते ?; इत्यतः कथमशरीरत्वम् ? तस्मान्निरवद्य एवायं हेतुरिति । स चैक इति च:- पुनरर्थे । स पुनः पुरुषविशेषः ; एक:- अद्वितीयः । बहूनां हि विश्वविधातृत्वस्वीकारे, परस्परविमतिसंभावनाया अनिवार्यत्वाद् एकैकस्य वस्तुनोऽन्यान्यरूपतया निर्माणे सर्वं समञ्जसमापद्यते इति । तथा स सर्वग - इति । सर्वत्र गच्छतीति सर्वगः-सर्वव्यापी । तस्य हि प्रतिनियतदेशवर्तित्वेऽनियतदेशवृत्तीनां विश्वत्रयान्तर्वर्तिपदार्थसार्थानां यथावन्निर्माणाऽनुपपत्तिः, कुम्भकारादिषु तथा दर्शनाद् । अथवा सर्वं गच्छति-जानातीति सर्वगः - सर्वज्ञः ; 'सर्वे 'गत्यर्था ज्ञानार्था:' इति वचनात्।सर्वज्ञत्वाभावे हि यथोचितोपादानकारणाद्यनभिज्ञत्वाद्-अनुरूपकार्योत्पत्तिर्न स्यात् । तथा स स्ववशः-स्वतन्त्रः, सकलप्राणिनां स्वेच्छया सुखदुःखयोरनुभावनसमर्थत्वात् । तथा चोक्तम् 'ईश्वरप्रेरितो गच्छेत् स्वर्गं वा श्वंभ्रमेव वा । अन्यो जन्तुरनीशोऽयमात्मनः सुखदुःखयोः ' । । १ । । इति-पारतन्त्र्ये तु तस्यं परमुखप्रेक्षितया मुख्यकर्तृत्वव्याघाताद् अनीश्वरत्वापत्तिः । तथा स नित्य इति - अप्रच्युतानुत्पन्नस्थिरैकरूपः । तस्य ह्यनित्यत्वे परोत्पाद्यतया कृतकत्वप्राप्तिः; अपेक्षितपरव्यापारो हि भावः स्वभावनिष्पत्तौ कृतक इत्युच्यते । यच्चापरस्तत्कर्ता कल्प्यते स नित्योऽनित्यो वा स्यात् ? । नित्यश्चेत्-अधिकृतेश्वरेण किमपराद्धम् ? । अनित्यश्चेत्-तस्याप्युत्पादकान्तरेण भाव्यम्; तस्यापि नित्यानित्यत्व- कल्पनायाम् - अनवस्थादौस्थ्यमिति । , तदेवमेकत्वादिविशेषणविशिष्टो भगवानीश्वरस्त्रिजगत्कर्तेति पराभ्युपगममुपदर्श्य उत्तरार्धेन तस्य दुष्टत्वमाचष्टे - इमा:- एताः ; अनन्तरोक्ताः, कुहेवाकविडम्बना: १. 'आपनीषद्येत' इति घ. ख. ह. पुस्तकेषु पाठः । २. 'गत्यर्था ज्ञानार्थाः' हेमहंसगणिसमुचितहेमचन्द्रव्याकरणस्थन्यायः ४४ इति । ३. 'नित्यानित्यविकल्पकल्पनायाम्' इति क पुस्तके पाठः । (स्याद्वादमञ्जरी ॐॐॐॐॐॐॐॐ २३
SR No.002261
Book TitleSyadwad Manjari
Original Sutra AuthorN/A
AuthorMotilal Ladhaji, Prashamrativijay
PublisherNaginbhai Paushadhshala
Publication Year2002
Total Pages306
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy