________________
अथ तदभिमतमीश्वरस्य जगत्कर्तृत्वाभ्युपगमं मिथ्याभिनिवेशरूपं निरूपयन्नाहकर्तास्ति कश्चिद् जगत: स चैक: स सर्वगः स स्ववश: स नित्यः | इमा: कुहेवाकविडम्बनाः स्यु- . स्तेषां न येषामनुशासकस्त्वम् ।।६।। जगतः-प्रत्यक्षादिप्रमाणोपलक्ष्यमाणचराचररूपस्य विश्वत्रयस्य, कश्चिद्अनिर्वचनीयस्वरूपः, पुरुषविशेषः; कर्ता-स्रष्टा, अस्ति-विद्यते । ते हि इत्थं प्रमाणयन्ति-उवीपर्वतंतर्वादिकं सर्वं, बुद्धिमत्कर्तृकं, कार्यत्वात्; यद् यत् कार्यं तत् तत्सर्वं बुद्धिमत्कर्तृकं, यथा घटः, तथा चेदं, तस्मात् तथा; व्यतिरेके व्योमादि । यश्च बुद्धिमांस्तत्कर्ता-स भगवानीश्वर एवेति ।
न 'चायमसिद्धो हेतुः-यतो भूभूधरादेः स्वस्वकारणकलापजन्यतया, अवयवितया . . वा कार्यत्वं सर्ववादिनां प्रतीतमेव । नाप्यनैकान्तिको विरुद्धो वाविपक्षादत्यन्तव्यावृत्तत्वात् । नापि कालात्ययापदिष्टः-प्रत्यक्षानुमानागमाऽबाधितधर्मधर्म्यनन्तरप्रतिपादितत्वात् ।। नापि "प्रकरणसमः-तत्प्रतिपन्थि.धर्मोपपादनसमर्थप्रत्यनुमानाभावात् । ___ न च वाच्यम्-ईश्वरः-पृथ्वीपृथ्वीधरादेर्विधाता न भवति; अशरीरत्वात्; निर्वृतात्मवत्; इति प्रत्यनुमानं तद्बाधकमिति । यतोऽत्रेश्वररूपो धर्मी प्रतीतोऽप्रतीतो वा प्ररूपितः ? । न तावदप्रतीतः; हेतोराश्रयासिद्धिप्रसंगात् । प्रतीतश्चेत्, येन प्रमाणेन स प्रतीतस्तेनैव
१. अयं साध्यसमशब्देनाभिधीयते । तल्लक्षणं-'साध्याविशिष्टः साध्यत्वात्साध्यसमः' । गौतमसूत्र
। १-२-८ । २. तल्लक्षणं-'अनैकान्तिकः सव्यभिचारः' । गौतमसूत्रे १-२-५ । ३. तल्लक्षणं-'सिद्धान्तमभ्युपेत्य तद्विरोधी विरुद्धः' । गौतमसूत्रे १-२-६ । ४. तल्लक्षणं-'कालात्ययापदिष्ट: कालातीतः' । गौतमसूत्रे १-२-९ । ५. तल्लक्षणं-'यस्मात्प्रकरणचिन्ता स निर्णयार्थमपदिष्टः प्रकरणसमः' । गौतमसूत्रे १-२-७। (२२
स्याद्वादमञ्जरी