________________
नानाकार्याणां कथमुत्पत्तिः? इति चेत्, अहो स्वपक्षपाती देवानांप्रियः- यः खलु स्वयमेक स्माद् निरंशाद् रूपादि क्षणलक्षणात् कारणाद् युगपदनेककार्याण्यङ्गीकुर्वाणोऽपि परपक्षे नित्येऽपि वस्तुनि क्रमेण नानाकार्यकरणेऽपि विरोधमुद्भावयति । तस्माद् क्षणिकस्यापि भावस्याक्रमेणार्थक्रिया दुर्घटा ।
इत्यनित्यैकान्तादपि क्रमाक्रमयोर्व्यापकयोनिवृत्त्यैव व्याप्याऽर्थक्रियापि व्यावर्तते; तद्व्यावृत्तौ च सत्त्वमपि व्यापकानुपलब्धिबलेनैव निवर्तते । इत्येकान्तानित्यवादोऽपि न रमणीयः ।।
स्याद्वादे तु-पूर्वोत्तराकारपरिहार स्वीकारस्थितिलक्षणपरिणामेन भावानामर्थक्रियोपपत्तिरविरुद्धा । न चैकत्र वस्तुनि परस्परविरूद्धधर्माध्यासयोगादसन् स्याद्वाद इति वाच्यम्; नित्यानित्यपक्षविलक्षणस्य पक्षान्तरस्याङ्गीक्रियमाणत्वात्। तथैव च सर्वैरनुभवात् । तथा च पठन्ति
'भागे सिंहो नरो भागे योऽर्थो भागद्वयात्मकः । तमभागं विभागेन नरसिंहं प्रचक्षते' ।।१।।इति।
वैशेषिकैरपि चित्ररूपस्यैकस्यावयविनोऽभ्युपंगमात् । एकस्यैव पटादेश्चलाचलरक्तारक्तावृतानावृतत्वादिविरूद्धधर्माणामुपलब्धेः सौगतैरप्येकत्र चित्रपटीज्ञाने नीलानीलयोविरोधानङ्गीकारात् । , . अत्र च यद्यप्यधिकृतवादिनः प्रदीपादिकं कालान्तरावस्थायित्वात् क्षणिकं न मन्यते; तन्मते पूर्वापरान्तावच्छिन्नायाः सत्ताया एवानित्यलंक्षणात् । तथापि बुद्धिसुखादिकं तेऽपि क्षणिकतयैव प्रतिपन्नाः; इति तदधिकारेऽपि क्षणिकवादचर्चा नानुपपन्ना । 'यदपि च कालान्तरावस्थायि वस्तु, तदपिं नित्यानित्यमेव । क्षणोऽपि ' न खलु सोऽस्ति-यत्र उत्पादव्ययध्रौव्यात्मकं नास्ति इति काव्यार्थः ।।५।।
१. 'यदापि' इति रा. पुस्तके पाठः । २. 'तदापि' इति रा. पुस्तके पाठः ।
स्याद्वादमञ्जरीMARA
LA २१