________________
एकान्तानित्यपक्षोऽपि न 'कक्षीकरणार्हः । अनित्यो हि प्रतिक्षणविनाशी; स च न क्रमेणार्थक्रियासमर्थः; देशकृतस्य कालकृतस्य च क्रमस्यैवाभावात्। क्रमो हि पौर्वापर्यम्, तच्च क्षणिकस्यासम्भवि । अवस्थितस्यैव हि नानादेशकालव्याप्तिः देशक्रमः कालक्रमश्चाभिधीयते; न चैकान्तविनाशिनि साऽस्ति ।
यदाहु:.. 'यौ यत्रैव स तत्रैव यो यदैव तदैव सः ।
न देशकालयोर्व्याप्तिर्भावानामिह विद्यते' ।।१।।
न च सन्तानापेक्षया पूर्वोत्तरक्षणानां क्रमः सम्भवति; सन्तानस्याऽवस्तुत्वात् वस्तुत्वेऽपि तस्य यदि क्षणिकत्वं, न तर्हि क्षणेभ्यः कचिद्विशेषः । अथाक्षणिकत्वं, तर्हि समाप्तः क्षणभङ्गवादः । ___ नाप्यक्रमेणार्थक्रिया क्षणिके संभवति । स ह्येको ४बीजपूरादिक्षणो५ युगपदनेकान् रसादिक्षणान् जनयन् एकेन स्वभावेन जनयेत्, नानास्वभावैर्वा ? । . यद्येकेन तदा तेषां रसादिक्षणानामेकत्वं स्यात्; एकस्वभावजन्यत्वात् । अथ नानास्वभावैर्जनयति-किञ्चिद्रूपादिकमुपादानभावेन, किञ्चिद्रसादिकं सहकारित्वेन, इति चेत्: तर्हि ते स्वभावास्तस्यात्मभूता अनात्मभूता वा ? । अनात्मभूताश्चेत् स्वभावत्वहानिः । यद्यात्मभूताः तर्हि तस्यानेकत्वम् अनेकस्वभावत्वात् स्वभावानां वा एकत्वं प्रसज्येत; तदव्यतिरिक्तत्वात् तेषां, तस्य चैकत्वात् । .. .... अथ य एव एकत्रोपादानभावः स एवान्यत्र सहकारिभाव इति न स्वभावभेद इष्यते; तर्हि नित्यस्यैकरूपस्यापि क्रमेण नानाकार्यकारिणः स्वभावभेदः कार्यसाङ्कर्यं च कथमिष्यते क्षणिकवादिना ? । अथ नित्यमेकरूपत्वादक्रम, अक्रमाञ्च क्रमिणां
१. स्वीकतुं योग्य इत्यर्थः ।. २. आजीविकाः । ३. 'दृश्यते' इति क. पुस्तके पाठः । . . ४. 'बीजपुरादिरूपादि' इति क. पुस्तके पाठः । . ५. एते बौद्धाः क्षणशब्देन पदार्थन् गृह्णन्ति । यतः सर्वे पदार्थाः क्षणिकाः । (२०THAKAKARANA स्याद्वादमञ्जरी
" mo 5