________________
सुखमसुखं वा भुञ्जाना एवासते । ते कथमिव तनयादिभिरावर्जितं पिण्डमुपभोक्तुं स्पृहयालवोऽपि स्युः ? । तथा च युष्मद्यूथिनः पठन्ति'मृतानामपि जन्तूनां श्राद्धं चेत् तृप्तिकारणम् । तनिर्वाणप्रदीपस्य स्नेहः संवर्धयेच्छिखाम्' ।।१।। इति ।
कथं च श्राद्धविधानाधर्जितं पुण्यं तेषां समीपमुपैतु । तस्य तंदन्यकृतत्वाद्, जडत्वाद्, निश्चरणत्वाञ्च ।
अथ तेषामुद्देशेन श्राद्धादिविधानेऽपि पुण्यं दातुरेव तनयादेः स्यादिति चेत् । तन्न । तेन तज्जन्यपुण्यस्य स्वाध्यावसायादुत्तारितत्वात् । एवं च तत्पुण्यं नैक तर स्यापि इति-विचाल' एव विलीनं त्रिशङ्कज्ञातेन, किन्तु ४पापानुबन्धिपुण्यत्वात् तत्त्वतः पापमेव । अथ विप्रोपभुक्तं तेभ्य उपतिष्ठत इति चेत् क इवैतत्प्रत्येतु ? विप्राणामेव मेदुरोदरतादर्शनात् । तद्वपुषि च तेषां संक्रमः श्रद्धातुमपि न शक्यते । भोजनाऽवसरे तत्सङ्क्रमलिङ्गस्य कस्याऽप्यनवलोकनात्, विप्राणामेवं च तृप्तेः साक्षात्करणात् । यदि परं त एव स्थूलकवलैराकुलतरमतिगाा भक्षयन्तः प्रेतप्रायाः, इति मुधैव श्राद्धादिविधानम्। यदपि च गयाश्राद्धा-ऽऽदियाचनमुपलभ्यते, तदपि तादृशविप्रलम्भकविभङ्गज्ञानि व्यन्तराऽऽदिकृतमेव निश्चयम् ।
यंदप्युदितम्-आगमश्चात्र प्रमाणमिति । तदप्यप्रमाणम् । स हि पौरुषेयो वा स्यात्, अपौरुषेयो वा ? । पौरुषेयश्चेत्-सर्वज्ञकृतः, तदितरकृतो वा ? । आद्यपक्षे-युष्मन्मतव्याहतिः । तथा च भवत्सिद्धान्त:
१. 'यूथ्येनं' पठितम् इति क. पुस्तके पाठः । २. मध्य एव । अकाण्ड इत्यर्थः । ३. वसिष्ठशापेन त्रिंशङ्कर्नाम राजा चण्डालत्वमाप । ततस्तेन विश्वामित्रद्वारा ऋतुः .
संपादितस्तन्माहात्म्याश्रूमेः स्वर्गमार्गे ययौ । इन्द्रादिभिस्तस्य स्वगों निषिद्धस्तदा सोऽन्तराल
एव स्थितः । तथा च तेन स्वर्गसुखं न वा भूमिसुखं लब्धं तद्वत् । ४. 'गेहाद् गेहान्तरं कश्चिच्छोभनादितरं नरः । याति यद्वदसद्धर्मात्तद्वदेव भवाद्भवम्' ।।२।। ___ हरिभद्रसूरिविरचिते चतुर्विशतितमेऽष्टके द्वितीय: श्लोकः ।। ५. 'भक्षयन्त' इति घ. पुस्तके नास्ति । ६. गया-तीर्थविशेषः । . ७. तत्त्वार्थसू. १-३२ । । (७४
स्याद्वादमञ्जरी