________________
१अतीन्द्रियाणामर्थानां साक्षाद् द्रष्टा न विद्यते । नित्येभ्यो वेदवाक्येभ्यो यथार्थत्वविनिश्चयः' ।।१।।
द्वितीयपक्षे तु-तत्र दोषवत्कर्तृत्वेनाऽऽश्वासप्रसङ्गः । अपौरुषेयश्चेद् न संभवत्येव । स्वरूपनिराकरणात्, तुरङ्गशृङ्गवत् । तथाहि उक्तिर्वचनमुच्यते इति चेति पुरुषक्रियानुगतं रुपमस्य । एतत्क्रियाभावे कथं भवितुमर्हति ? । न चैतत् केवलं क्वचिद् ध्वनदुपलभ्यते। उपलब्धावप्यदृश्यवक्ताशङ्कासंभवात् । तस्मात् 'वचनं तत् पौरुषेयमेव, वर्णात्मकत्वात्, कुमारसंभवाऽऽदिवचनवत्, वचनाऽऽत्मकश्च वेदः । तथा चाहुः-. 'ताल्वादिजन्मा ननु वर्णवर्गो वर्णात्मको वेद इति स्फुटं च । पुंसश्च ताल्वादिरतः कथं स्याद- तपौरुषेयोऽयमिति प्रतीतिः ?'...
श्रुतेरपौरुषेयत्वमुररीकृत्याऽपि तावद्भवद्भिरपि तदर्थव्याख्यानं पौरुषेयमेवाऽङ्गीक्रियते। अन्यथा '४अग्निहोत्रं जुहुयात् स्वर्गकामः' इत्यस्य-श्वमांस भक्षयेदिति किं नाऽर्थः ? नियामकाऽभावात् । ततो वरं सूत्रमपि पौरुषेयमभ्युपंगतम् । अस्तु वाऽपौरुषेयः, तथापि तस्य न प्रामाण्यम्-आप्तपुरुषाधीना हि वाचां प्रमाणतेति । एवं च तस्याप्रामाण्ये, तदुक्तस्तदनुपातिस्मृतिप्रतिपादितश्च हिंसात्मको यागश्राद्धाऽऽदिविधिः प्रामाण्यविधुर एवेति । .. .. ___ अथ योऽयं न हिंस्यात् सर्वभूतानि' इत्यादिना हिंसानिषेधः स औत्सर्गिको मार्गः, सामान्यतो विधिरित्यर्थः । वेदविहिता तु हिंसा अपवादपदम् । विशेषतो विधिरित्यर्थः । ततश्चाऽपवादेनोत्सर्गस्य बाधितत्वाद् न श्रौतो हिंसाविधिर्दोषाय, 'उत्सर्गापवादयोरपवादोविधिर्बलीयान्' इतिन्यायात् । भवतामपिहिनखल्वेकान्तेन
१. 'तस्मादतीन्द्रियार्थानां साक्षाद्दष्टुरभावतः । नित्येभ्यो वेदवाक्येभ्यो यथार्थत्वविनिश्चयः'
. ।।६९।। श्रीहरिभद्रसूरिकृतषड्दर्शनसमुञ्चये जैमिनीयदर्शने । २. 'यद्' इत्यधिकं क. ख. घ. पुस्तकेषु । ३. कुमारसंभवाख्यं काव्यं कालिदासकृतम् । ४. तै. सं. । ५. छां. अ. ८ ६. श्री हेमहंसगणिसमुञ्चितहेमव्याकरणस्थन्यायः । स्याद्वादमञ्जरीMA MANARRANA ७५)