________________
हिंसानिषेधः । तत्कारणे जाते पृथिव्यादिप्रतिसेवनानामनुज्ञानात्, ग्लानाद्यसंस्तरे
आधाकर्मादिग्रहणभणनाञ्च । अपवादपदं च-याज्ञिकी हिंसा, देवतादिप्रीतेः पुष्टालम्बनत्वात् । इति परमाशङ्कय स्तुतिकार आह-नोत्सृष्टमित्यादि । । __ अन्यार्थमिति मध्यवर्ति पदं 'डमरुकमणिन्यायेनोभयत्राऽपि सम्बन्धनीयम् । अन्यार्थमुत्सृष्टम्-अन्यस्मै कार्याय प्रयुक्तम्-उत्सर्गवाक्यम्, अन्यार्थप्रयुक्तेन वाक्येन, नापोद्यते-नापवादगोचरीक्रियते । यमेवार्थमाश्रित्य शास्त्रेपूत्सर्गः प्रवर्तते, तमेवार्थमाश्रित्या- ऽपवादोऽपि प्रवर्तते; तयोनिनोन्नतादिव्यवहारवत् परस्परसापेक्षत्वेनैकार्थ-साधनंविषयत्वात् । यथा जैनानां संयमपरिपालनार्थं
नवकोटि-विशुद्धाहारग्रहणमुत्सर्गः । तथाविधद्रव्यक्षेत्रकाल- भावाऽऽपत्सु च निपतितस्य गत्यन्तराऽभावे "पञ्चकादियतनयाऽ नेषणीयादि- ग्रहणमपवादः । सोऽपि च संयमपरिपालनार्थमेव । नंच मरणैकशरणस्य गत्यन्तराभावोऽसिद्ध १. ग्लानाद्यसंस्तरः-संयमानिर्वाह: । . २. आधायसाधूंश्चेतसि प्रणिधाय यक्रियते भक्तादि तदाऽऽधाकर्म । पृषोदरादित्वादिति यलोपः ।
आधानं साधुनिमित्तं चेतसः प्रणिधानं यथाऽमुकस्य साधोः कारणेन मया भक्तादिपचनीयमिति ।
आधया कर्म पाकाऽतिक्रिया-आधाकर्म । तद्योगाद् भक्ताद्यपि आधाकर्म । ३. डमरुमध्ये प्रतिबद्धो मणिरेक एव सन् डमरुविचाले तदुभयाङ्गसंबद्धो भवति तद्वदेकमेवान्यार्थमिति
पदमुभयत्र संबध्यते । अयमेव न्यायो देहलीदीपन्यांय इत्यप्यभिधीयते । ४. कोटयो नव । १ स्वयं हननं २ अन्येन घातनं ३ अपरेण हन्यमानस्यानुमोदनं ४ स्वयं पचनं . ५ अन्येन पाचनं ६ अपरेण पाच्यमांनस्यानुमोदनं ७ स्वयं क्रयणं ८ अन्येन क्रायणं ९
अपरेण क्रीयमाणस्यानुमांदनम् । इति मलयगिर्याचार्यकृतायां पिण्डनियुक्तिविवृतौ उद्गमद्वारे
गा. ४०२ । ५. 'तत्थेव अन्नगामे वुच्छन्तर असंभरंत जयणाए । संथरणे सणमादि छन्नं कडजोगी गीयत्थे' ।।
'प्रथमतस्तत्रैव ग्रामे प्रायोग्यमन्वेषणीयम् । तत्र यदि न लभ्यते तदाऽन्यग्रामेऽपि । अथाऽ सावन्यग्रामो दूरतरस्ततोऽपान्तरालग्राम उषित्वा द्वितीये दिन आनयन्ति । अथैवमव्यसंस्तरणं भवति ततः, अकारप्रश्लेषादसंस्तरतो ग्लानस्यार्थाय यतनया पञ्चकपरिहाण्या गृह्णन्ति । अथ म्लानाऽर्थ व्यापूतानां परिचारकाणां संस्तरणं तत एषणादोषेषु आदिशब्दादुद्गमादिदोषेषु च पश्चकपरिहाण्या यतितव्यम् । अथ प्रतिदिवसं ग्लानप्रायोग्यं न लभ्यते ततश्छन्नमप्रकटं कृतयोगी गीतार्थो वा प्रायोग्यं द्रव्यं परिवासयन्ति । यथाकर्णितछेदश्रुतार्थ: प्रत्युच्चारणासमर्थः कृतयोगी यस्तु छेदश्रुतार्थे श्रुत्वा प्रत्युञ्चारयितुमीशः स गीतार्थ उच्यते' ।
बृहत्कल्पसूत्रे १ उद्देशे बृहच्छालीयश्रीक्षेमकीर्तिसूरिकृतटीकायाम् । (समासार्थोऽपि तत्रैव ।) ६. अनेषणीयं-अशुद्धम् । .. (७६)
स्याद्वादमञ्जरी