________________
इति वाच्यम् ।
'सव्वत्थ संजमं संजमाओ अप्पाणमेव रक्खिजा।।
मुवइ अइवायाओ पुणो विसोही नयाऽविरई ।।१।। इत्यागमात् । .' तथा आयुर्वेदेऽपि यमेवैकं रोगमधिकृत्य कस्यांञ्चिदवस्थायां किञ्चिद्वस्त्वपथ्यं, तदेवाऽवस्थाऽन्तरे तत्रैव रोगे पथ्यम्'उत्पद्यते हि साऽवस्था देशकालामयान् प्रति । .
यस्यामकार्यं कार्यं स्यात् कर्म कार्य तु वर्जयेत् ।।१।। इति वचनात् ।
यथा बलवदादेरिणो लङ्घनं, क्षीणधातोस्तु तद्विपर्ययः । एवं देशाद्यपेक्षया ज्वरिणोऽपि दधिपानाऽदियोज्यम् । तथा च वैद्या:
'कालाऽविरोधि निर्दिष्टं ज्वराऽदौ लङ्घनं हितम् ।। ऋतेऽनिलश्रमक्रोधशोककामकृतज्वरान् ।।१॥
एवं च यः पूर्वमपथ्यपरिहारो, यश्च तत्रैवावस्थान्तरे तस्यैव परिभोगः स खलूभयोरपि तस्यैव रोगस्य शमनार्थः । इति सिद्धमेकविषयत्वमुत्सर्गापवादयोरिति ।
भवतां चोत्सर्गोऽन्याऽर्थः, अपवादश्चान्याऽर्थः । 'न हिंस्यात् सर्वभूतानि' इत्युत्सर्गो हि दुर्गतिनिषेधार्थः । अपवादस्तु वैदिकहिंसाविधि देवताऽतिथिपितृप्रीतिसंपादनार्थः । अतश्च परस्परनिरपेक्षत्वे कथमुत्सर्गोऽपवादेन बाध्यते ? 'तुल्यबलयोर्विरोध' इति न्यायात् । भिन्नार्थत्वेऽपि तेन तद्बाधने-अतिप्रसङ्गात् । नच वाच्यं वैदिकहिंसाविधिरपि स्वर्गहेतुतया दुर्गतिनिषेधार्थमेवेति । तस्योक्तयुक्त्या १. सर्वत्र संयमं संयमादात्मानमेव रक्षेत् । मुच्यतेऽतिपातात्पुनर्विशुद्धिर्न चाविरतिः ।। इति ___ छाया । २. 'इति' पदं क. पुस्तके नास्ति । ३. छां. अ. ८ । ४. 'विधिरपि स्व' इति क. पुस्तके पाठः । स्याद्वादमञ्जरीkarinaraduation ७७)