________________
स्वर्गहेतुत्वनिर्लोठनात् । तमन्तरेणापि च प्रकारान्तरैरपि तत्सिद्धिभावात् । गत्यन्तराऽभावे ह्यपवादपक्षकक्षीकारः ।।
नच वयमेव यागविधेः सुगतिहेतुत्वं नाङ्गीकुर्महे, किन्तु भवदाप्ता अपि । यदाह व्यासमहर्षि:
'पूजया विपुलं राज्यमग्निकार्येण संपदः । तपः पापविशुध्दयर्थं ज्ञानं ध्यानं च मुक्तिदम्' ।।१।।
अत्राऽग्निकार्यशब्दवाच्यस्य यागादिविधेरुपायान्तरैरपि लभ्यानां संपदामेव हेतुत्वं वदन्नाचार्यः-तस्य सुगतिहेतुत्वमर्थात् कर्थितवानेव । तथाच स एव भावाऽग्निहोत्रं ज्ञानपालीत्यादि श्लोकैः स्थापितवान् । __. तदेवं स्थिते तेषां वादिनां चेष्टामुपमया दूषयति-स्वपुत्रेत्यादि । परेषांभवत्प्रणीतवचनपराङ्मुखानां स्फुरितं चेष्टितम्, स्वपुत्रघाताद् नृपतित्वलिप्सासब्रह्मचारि-निजसुतनिपातनेन. राज्यप्राप्तिमनोरथसदृशम् । यथा किल कश्चिदविपश्चित् पुरुषः परुषाऽऽशयतया निजमङ्गजं व्यापाद्य राज्यश्रियं प्राप्तुमीहते । नच तस्य तत्प्राप्तावपि पुत्रघातपातककलङ्कपङ्कः क्वचिदपयाति । एवं वेदविहितहिंसया देवतादिप्रीतिसिद्धावपि, हिंसासमुत्थं दुष्कृतं न खलु पराहन्येत । अत्र च लिप्साशब्दं प्रयुञ्जानः स्तुतिकारो ज्ञापयति-यथा तस्य दुराशयस्याऽसदृशतादृशदुष्कर्मनिर्माणनिर्मूलितसत्कर्मणो राज्यप्राप्तौ केवलं समीहामात्रमेव, "न पुनस्तत्सिदः । एवं तेषां दुर्वादिनां वेदविहितां हिंसामनुतिष्ठतामपि देवतादिपरतोषणे मनोराज्यमेव, न पुनस्तेषामुत्तमजनपूज्यत्वमिन्द्रादिदिवौकसां
१. कक्षीकारः-अङ्गकरणम् । २. (८३) पत्रे ११ लोके उद्धृता अवतरणे । ३. 'श्रूयतां धर्मसर्वस्वमित्यादि स्वोत्पन्नवचनरूपनिजसुतनिपातनेन वेदविहिताहिंसाया मुग्धपुरुष
स्वामित्वक्षुद्र' इति घ. पुस्तके पाठः । ४. 'पराहन्यते' इति च. पुस्तके पाठ: । ५. स्वपुत्रपतित्वाऽभावे पुरुषपतित्वस्याप्याऽभावात्तत्त्वतो न तत्सिद्धिरिति घ. पुस्तके पाठः ।
( ७८
r intinuink
स्याद्वादमञ्जरी