________________
च तृप्तिः । प्रागुक्तयुक्त्या निराकृतत्वात् । इति काव्यार्थः ।। ११ ।।
सांप्रतं नित्यपरोक्षज्ञानवादिनां मीमांसकभेदभट्टानाम् एकात्मसमवायिज्ञानान्तर- वेद्यज्ञानवादिनां च यौगानां मतं विकुट्टयन्नाह
स्वार्थावबोधक्षम एव बोध: प्रकाशते नार्थकथाऽन्यथा तु । परे परेभ्यो भयतस्तथापि
प्रपेदिरे ज्ञानमनात्मनिष्ठम् ||१२||
बोधो-ज्ञानं, स च स्वार्थाऽवबोधक्षम एव प्रकाशते - स्वस्य- आत्मस्वरुपस्य, अर्थस्य च योऽवबोधः - परिच्छेदस्तत्र, क्षम एव समर्थ एव प्रतिभासते ।. इत्ययोगव्यवच्छेदः । प्रकाशत इति क्रियया अवबोधस्य प्रकाशरूपत्वसिद्धेःसर्वप्रकाशानां स्वार्थप्रकाशकत्वेन, बोधस्याऽपि तत्सिद्धिः । विपर्यये दूषणमाहनार्थकथान्यथात्विति । अन्यथेति- अर्थप्रकाशनेऽविवादाद्, ज्ञानस्य स्वसंविदितत्वाऽनभ्युपगमेऽर्थकथैव न स्यात् । अर्थकथापदार्थसम्बन्धिनी वार्ता, सदसद्रूपात्मकं स्वरुपमिति यावत् । तुशब्दोऽवधारणे भिन्नक्रमश्च स चार्थकथया सह योजित एव । यदि हि ज्ञानं स्वसंविदितं नेष्यते, तदा तेनाऽऽत्मज्ञानाय ४ ज्ञानाऽन्तरमपेक्षणीयं तेनाऽप्यपरमित्याद्यनवस्था । ततो ज्ञानं तावत् स्वाऽवबोधव्यग्रतामग्नम् । अर्थस्तु जडतंया स्वरुपज्ञापनाऽसमर्थ इति को नामाऽर्थस्य कथामपि कथयेत् ? ।
तथापि एवं ज्ञानस्य स्वसंविदितत्वे युक्त्या घटमानेऽपि परे - तीर्थान्तरीयाः, ज्ञानं-कर्तृताऽपन्नम्, अनात्मनिष्ठं - न विद्यत आत्मनः स्वस्य निष्ठा निश्चयो यस्य
१ अतः परं 'पदार्थस्य' इति क. ख. घ. पुस्तकेष्वधिकम् ।
२ ‘प्रकाशते' इत्यतः ‘तत्सिद्धिः' इत्यन्तं क. ख. पुस्तकयोर्नास्ति ।
३ 'वस्तुस्वरूपम्' इति क पुस्तके पाठः ।
४ 'ज्ञानार्थम्' इति घ. पुस्तके पाठः ।
(स्याद्वादमञ्जरी
** ७९