________________
तदनात्मनिष्ठम्, अस्वसंविदितमित्यर्थः, प्रपेदिरे-प्रपन्नाः । कुतः ? इत्याह-परेभ्यो भयतः, परे पूर्वपक्षवादिनः, तेभ्यः सकाशात् ज्ञानस्य स्वसंविदितत्वं नोपपद्यते, 'स्वात्मनि क्रियाविरोधादित्युपालम्भ सम्भावनासम्भवं यद्भयं तस्मात्तदाश्रित्येत्यर्थः ।
इत्थमक्षरगमनिका विधाय भावार्थः प्रपञ्च्यते-भट्टास्तावदिदं वदन्ति । यद् ज्ञानं स्वसंविदितं न भवति, स्वाऽऽत्मनि क्रियाविरोधात् । न हि सुशिक्षितोऽपि नटबटुः स्वस्कन्धमधिरो, पटुः, न च सुतीक्ष्णाऽप्यसिधारा स्वं छेत्तुमाहितव्यापाराः । ततश्च परोक्षमेव ज्ञानमिति । तदेतन सम्यक् यतः-किमुत्पत्तिः स्वाऽऽत्मनि विरुध्यते ज्ञप्तिा ?। यद्युत्पत्तिः-सा विरुध्यताम्, नहि वयमपि ज्ञानमात्मानमुत्पादयतीति मन्यामहे । अथ ज्ञप्तिः-नेयमात्मनि विरुद्धा । तदाऽऽत्मनैव ज्ञानस्य स्वहेतुभ्य उत्पादात् । प्रकाशात्मनेव प्रदीपालोकस्य । अथ प्रकाशात्मैव प्रदीपाऽऽलोक उत्पन्न इति परप्रकाशोऽस्तु । आत्मानमप्येतावन्मात्रेणैव प्रकाशयतीति कोऽयं न्यायः ? । इति चेत् । तत्किंतेन वराकेणाप्रकाशितेनैव
स्थातव्यम, आलोकान्तराद् वाऽस्य प्रकाशेन भवितव्यम् ? । प्रथमे प्रत्यक्षबाधः । द्वितीयेऽपि-सैवाऽनवस्थाऽऽपत्तिश्च ।
अथ नाऽसौ स्वमपेक्ष्य कर्मतया चकास्तीत्यस्वप्रकाशकः स्वीक्रियते, आत्मानं न प्रकाशयतीत्यर्थः । प्रकाशरूपतया तूत्पनत्वात् स्वयं प्रकाशत एवेति चेत् । चिरञ्जीव । नहि वयमपि ज्ञानं कर्मतयैव प्रतिभासमानं स्वसंवेद्यं ब्रूमः । ज्ञानं स्वयं प्रतिभासत इत्यादावकर्मकस्य तस्य चकासनात् । यथा तु ज्ञानं "स्वं जानामीति कर्मतयाऽपि तद्भाति, तथा प्रदीपः स्वं प्रकाशयतीत्ययमपि कर्मतया "प्रथित एव । . . १. स्वप्रकाशत्वं नाम स्वप्रकाशजनकत्वं । तत्स्वात्मनि क्रियां विनाऽत्यन्तमसंभवि । ___'गुणादिनिर्गुणक्रियः' इत्युक्तेः । आत्मनो ये चतुर्दश गुणास्तत्र ज्ञानमात्मनो विशेषगुणः । । २. वैशेषिकोपालम्भः । ३. 'भाव्यम्' इति क. पुस्तके पाठः । ४. प्रकाशनात् । ५. 'स्वम्' इति घ. पुस्तके नास्ति । .. ६. ज्ञानम् । ७. 'प्रथत एव' इति ख. पुस्तके पाठः । . Co u ntainikkkk स्याद्वादमञ्जरी