________________
यस्तु स्वाऽऽत्मनि क्रियाविरोधो दोष उद्भावितः-सोऽयुक्तः । अनुभवसिद्धेऽर्थेविरोधासिद्धेः ।घटमहंजानामीत्यादौ कर्तृकर्मवद्ज्ञप्तेरप्यवभा-समानत्वात् । न चाप्रत्यक्षोपलम्भस्याऽर्थदृष्टिः प्रसिध्यति । न च ज्ञानान्तरात् तदुपलम्भसम्भावना, तस्याऽप्यनुपलब्धस्य प्रस्तुतोपलम्भप्रत्यक्षीकाराऽभावात् । उपलम्भाऽन्तरसम्भावने चानवस्था । अर्थोपलम्भात् तस्योपलम्भे-अन्योन्याऽऽश्रयदोषः ।
अथार्थप्राकट्यमन्यथा नोपपद्येत-यदिज्ञानं न स्यात्, इत्यर्थाऽऽपत्त्या तदुपलम्भ इति चेत् । न । तस्या अपि ज्ञापकत्वेनाज्ञाताया ज्ञापकत्वायोगात् । अर्थापत्त्यन्तरात् तज्ज्ञानेऽनवस्थेतरेतराश्रयदोषाऽऽपत्तेः-तदवस्थ: परिभवः । . तस्मादर्थोन्मुखतयेव स्वोन्मुखतयाऽपि ज्ञानस्य प्रतिभासात् स्वसंविदितत्वम् ।
नन्वनुभूतेरनुभाव्यत्वे घटादिवदननुभूतित्प्रसङ्गः । प्रयोगस्तु ज्ञानमनुभवरूपमप्यनुभूतिर्न भवति, अनुभाव्यत्वाद्, घटवत्, अनुभाव्यं च भवद्भिरिष्यते . ज्ञानं, स्वसंवेद्यत्वात् । "मैवम् । ज्ञातुआतृत्वेनेवाऽनुभूतेरनुभूति४ त्वात् स्वाऽपेक्षया चाऽनुभाव्यत्वात् । स्वपितृपुत्राऽपेक्षयैकस्य पुत्रत्वपितृत्ववद् विरोधाऽभावाद् ।
अनुमानाञ्च स्वसंवेदनसिद्धिः । तथाहि-ज्ञानं स्वयंप्रकाशमानमेवार्थ प्रकाशयति, प्रकाशकत्वात्, प्रदीपवत् । संवेदनस्य प्रकाश्यत्वात् प्रकाशत्वमसिद्धमिति चेत् । न । अज्ञाननिरासादिद्वारेण प्रकाशकत्वोपपत्तेः । ' ___ ननु नेत्रादयः प्रकाशका अपि स्वं न प्रकाशयन्तीति प्रकाशकत्वहेतोरनै
१. नहि दृष्टेऽनुपपन्नं नामेति न्यायात् । किं च-'विरोधे वाविरोधे च प्रमाणं कारणं मतम् ।
प्रतीयते चेदुभयं विरोधः कोऽयमुच्यते' ।। . २. 'पुष्टो देवदत्तो दिवा न भुङ्क्ते' इति वाक्ये पुष्टत्वान्यथानुपपत्त्या यथा रात्रिभोजनं कल्प्यते
तथात्र घटज्ञानं विना घटप्राकट्यं नोपलभ्यत इति घटप्राकट्यान्यथानुपपत्त्या घटज्ञानं कल्प्यते । ३. तस्याः-अर्थापत्तेः । ४. 'नैवम्' इति घ. रा. पुस्तकयोः पाठः । ५. प्रदीपस्याऽर्थाऽपेक्षया प्रकाशकत्वं स्वापेक्षया च प्रकाश्यप्रकाशकत्वम् ।
(स्याद्वादमञ्जरी)AAAAAAAAAAnnarshan)