________________
कान्तिकति चेत् । 'न / नेत्रादिभिरनैकान्तिकता-तेषां लब्ध्यु 'पयोगलक्षणभावेन्द्रियरूपाणामेव प्रकाशकत्वात् । भावेन्द्रियाणां च स्वसंवेदनरूपतैवेति न व्यभिचारः । तथा संवित् स्वप्रकाशा, अर्थप्रतीतित्वात्, यः स्वप्रकाशो न भवति नासावप्रतीतिः, यथा घटः ।
तदेवं सिद्धेऽपि प्रत्यक्षाऽनुमानाभ्यां ज्ञानस्य स्वसंविदितत्वे 'सत्संप्रयोगे इन्द्रियबुद्धिजन्मलक्षणं ज्ञानं ततोऽर्थप्राकट्यं, तस्मादर्थापत्तिः, तया प्रवर्तकज्ञानस्योपलम्भ:' इत्येवंरूपा त्रिपुटीप्रत्यक्षकल्पना भट्टानां प्रयासफलैव ।
1
यौगास्त्वाहुः'- ज्ञानं स्वाऽन्यप्रकाश्यम्, ईश्वरज्ञानाऽन्यत्वे सति प्रमेयत्वात्, घटवत् । समुत्पन्नं हि ज्ञानमेकात्मसमवेतानन्तरोद्भविष्णुमानसप्रत्यक्षेणैव लक्ष्यते, न पुनः स्वेन । न चैवमनवस्था । अर्थावसायिज्ञानोत्पादमात्रेणैवाऽर्थसिद्धौ प्रमातुः कृतार्थत्वात् । अर्थज्ञानजिज्ञासायां तु तत्राऽपि ज्ञानमुत्पद्यत एवेति । तदयुक्तम्-पक्षस्य प्रत्यनुमानबाधितत्वेन हेतोः कालाऽत्ययाऽपदिष्टत्वात् । तथाहि - विवादास्पदं ज्ञानं स्वसंविदितं ज्ञानत्वात् । ईश्वरज्ञानवत् । न चाऽयं वाद्यप्रतीतो दृष्टान्तः, पुरुषविशेषस्येश्वरतया जैनैरपि स्वीकृतत्वेन तज्ज्ञानस्य तेषां प्रसिद्धिः ।
व्यर्थविशेष्यश्चाऽत्र तव हेतुः समर्थविशेषणोपादानेनैव साध्यसिद्धेः - अग्निसिद्धौ धूमवत्त्वे सति द्रव्यत्वादितिवद्, ईश्वरज्ञानान्यत्वादित्येतावतैव गतत्वात् । न हीश्वरज्ञानादन्यत् स्वसंविदितमप्रमेयं वा ज्ञानमस्ति यद्व्यवच्छेदाय प्रमेयत्वादिति क्रियेत, भवन्मते तदन्यज्ञानस्य सर्वस्य प्रमेयत्वात् ।
१. 'नात्र' इति क. ख. पुस्कयोः पाठः ।
२. अर्थग्रहणशक्तिर्लब्धिः । अर्थसंग्रहव्यापारस्तूपयोगः । एतयोर्लक्षणे, तत्त्वार्थसूत्रद्वितीयाध्याये श्लो. १६ १७ १८ द्रष्टव्ये ।
३. जैमिनिसूत्रे प्रथमाध्याये प्रथमपादे ४।५ सूत्रार्थाऽनुगुण
४. नैयायिकाः ।
५. 'अनन्तरोत्पदिष्णु' इति क. ख. घ. ह. पुस्तकेषु पाठः ।
६. 'प्रसिद्धेः' इति क. ह. रा. पुस्तकेषु पाठः ।
८२
(स्याद्वादमञ्जरी