________________
अप्रयोजकश्चायं हेतुः-सोपाधित्वात् साधनाऽव्यापकः साध्येन समव्याप्तिश्च खलु-उपाधिरभिधीयते । तत्पुत्रत्वाऽऽदिना श्यामत्वे साध्ये शाकाद्याहारपरिणामवत् । उपाधिश्चाऽत्र जडत्वम् । तथाहि ईश्वरज्ञानाऽन्यत्वे प्रमेयत्वे च सत्यपि यदेव जडं स्तम्भादि तदेव स्वस्मादन्येन प्रकाश्यते । स्वप्रकाशे परमुखप्रेक्षित्वं हि जडस्य लक्षणम् । न च ज्ञानं जडस्वरूपम् । अतः साधनाव्यापकत्वं जडत्वस्य । साध्येन समव्याप्तिकत्वं चास्य स्पष्टमेव । जाड्यं विहाय स्वप्रकाशाऽभावस्य तं च त्यक्त्वा जाड्यस्य क्वचिदप्यदर्शनाद् इति ।
यच्चोक्तं 'समुत्पन्नं हि ज्ञानमेकात्मसमवेतम्' इत्यादि । तदप्यसत्यम् । इत्थमर्थज्ञानतद्ज्ञानयोरुत्पद्यमानयोः क्रमाऽनुपलक्षणत्वाद्, `इति । आशूत्पादात क्रमानुपलक्षणमुत्पलपत्रैशतव्यतिभेदवद् इति चेत् । जिज्ञासाव्यवहितस्यार्थज्ञानस्योत्पादप्रतिपादनात् । नच. ज्ञानानां जिज्ञासासमुत्पाद्यत्वं घटते । अजिज्ञासितेंष्वपि योग्यदेशेषु विषयेषु तदुत्पादप्रतीतेः । नचाऽर्थज्ञानमयोग्यदेशम् । आत्मसमवेतस्याऽस्य समुत्पादात् । इति जिज्ञासामन्तरेणैवार्थज्ञाने ज्ञानोत्पादप्रसङ्गः । अथोत्पद्यतां नामेदं-को दोषः ? इति चेत् । नन्वेवमेव तद्ज्ञानज्ञानेऽप्यपरज्ञानो-त्पादप्रसङ्गः । तत्रापि चैवमेवायम् । इत्यपरापरज्ञानोत्पादपरम्परायामेवात्मनो व्यापारात् विषयान्तरसंचारः स्यादिति । तस्माद्यज्ज्ञानं तदात्मबोधं प्रत्यनपेक्षितज्ञानान्तरव्यापारम्, यथा गोचरान्तरग्राहिज्ञानात् प्राग्भाविगोचरान्तरग्राहि धारावाहिज्ञानप्रबन्धस्याऽन्त्यज्ञानम् । ज्ञानं च विवादाऽध्यासितं रूपादिज्ञानम्, इति न ज्ञानस्य ज्ञानाऽन्तरज्ञेयता युक्तिं सहते । इति काव्यार्थः ।।१२।।
न
१. 'समव्याप्तिकश्च' इति ख. घ. पुस्तकयोः पाठः । ·
२. यत्र यत्र जाड्यं तत्र तत्र स्वप्रकाशांऽभावः । यत्र च स्वप्रकाशाभावस्तत्र तत्र जाड्यमिति सम्यग्हेतौ त्वेकविधैव व्याप्तिः । नहि भवति यत्र यत्राग्निस्तत्र तत्र धूम इति । अङ्गाराऽवस्थायां धूमाऽनुपलम्भनातू ।
३. मृदूनां कमलपत्राणां वेधः प्रतिपत्रं क्रमेण भवति तथापि तस्य शीघ्रभावित्वात्स क्रमो नोपलक्ष्यते तद्वदित्यर्थः ।
४. 'तन्न' इति क. ख. घ. पुस्तकेषु अधिकम् ।
५. 'नत्वेवम्' इति क पुस्तके पाठः ।
६. 'न्याय' इत्यधिक घ. पुस्तके ।
७. एकस्मिन्नेव घटे 'घटोऽयम्' 'घटोऽयम्' इत्येवमुत्पद्यमानान्युत्तरोत्तरज्ञानानि धारावाहिकज्ञानानि ।
स्याद्वादमञ्जरी ॐ ॐ ॐ ॐ
४ ८३