________________
अथ ये ब्रह्माद्वैतवादिनोऽवादिनोऽविद्यापरपर्यायसमायावशात् प्रतिभासमानत्वेन विश्वत्रयवर्तिवस्तुप्रपञ्चमपारमार्थिकं समर्थयन्ते, तन्मतमुपहसन्नाह- ..
माया सती चेद् दयतत्त्वसिद्धिरथाऽसती हन्त कुत: प्रपञ्चः | . मायैव चेदर्थसहा च तत्कि माता च वन्ध्या च भवत्परेषाम् ।।१३।।
तैर्वादिभिस्तात्त्विकाऽऽत्मब्रह्माव्यतिरिक्ता या माया-अविद्या प्रपञ्चहेतुः परिकल्पिता, सा सद्रूपा असद्रूपा वा द्वयी गतिः । सतीसद्रूपा चेत् तदा द्वयतत्त्वसिद्धिः-द्वाववयवौ यस्य तद् द्वयं, तथाविधं यत् तत्त्वं परमार्थः, तस्य सिद्धिः । अयमर्थः-एकं तावत् त्वदभिमतं तात्त्विकमात्मब्रह्मा, द्वितीया च माया तत्त्वरूपा । सद्रूपतयाऽङ्गीक्रियमाणत्वात्। तथा चाद्वैतवादस्य मूले निहितः कुठारः । अथेति पक्षान्तरद्योतने । यदि असती-गगनाम्भोजवदवस्तुरुपा सा माया, ततः, हन्त इत्युपदर्शने आश्चर्य वा कुतः प्रपञ्चः ? अयं त्रिभुवनोदरविवरविवर्ति-पदार्थसार्थरूपप्रपञ्चः कुतः ? न कुतोऽपि संभवतीत्यर्थः । मायाया अवस्तुत्वेनाऽभ्युपगमात् अवस्तुनश्च तुरङ्गशृङ्गस्येव 'सर्वोपाख्याविरहितस्य साक्षाक्रियमाणेदृशविवर्तजननेऽसमर्थत्वात् । किलेन्द्रजालादौ मृगतृष्णादौ वा मायोपदर्शितार्थानामर्थक्रियायामसामर्थ्य दृष्टम्, अत्र तु तदुपलम्भात् कथं मायांव्यपदेशः श्रद्धीयताम् ? ____ अथ मायाऽपि भविष्यति, अर्थक्रियासमर्थपदार्थोपदर्शनक्षमा च भविष्यति इति चेत्, तर्हि स्ववचनविरोधः । नहि भवति माता च वन्ध्या चेति । एनमेवार्थं हदि निधायोत्तरार्धमाह-मायैव चेदित्यादि । अत्रैवकारोऽप्यर्थः । अपि चसमुच्चयार्थः ।
१. 'अभिमतम्' इति क. पुस्तके पाठः । २. 'सर्वोपेक्षा' इति क. पुस्तके पाठः ।
(
itisa
ritribabu स्याद्वादमञ्जरी