________________
अग्रेतनचकारश्च तथा । उभयोश्च समुञ्चायार्थयोयोगपद्यद्योतकत्वं प्रतीतमेव । यथा रघुवंशे-'ते'च प्रापुरुदन्वन्तं बुबुधे चादिपूरुषः' । इति । तदयं वाक्यार्थ:माया च भविष्यति अर्थसहा च भविष्यति । अर्थसहा अर्थक्रियासमर्थपदार्थोपदर्शनक्षमा, चेच्छब्दोऽत्र योज्यते-इति चेत् । एवं परमाशङ्कय तस्य स्ववचनविरोधमुद्भावयति-तत् किं भवत्परेषां माता च वन्ध्या च ? किमितिसंभावने । संभाव्यत एतत्-भवतो ये परे-प्रतिपक्षाः, तेषां भवत्परेषां भवद्व्यतिरिक्तानां, भवदाज्ञापृथग्भूतत्वेन तेषा वादिनां, यन्माता च भविष्यति, वन्ध्या च भविष्यतीत्युपहासः । माता हि प्रसवधर्मिणीवनितोच्यते । वन्ध्या च तद्विपरीता । ततश्च माता चेत्कथं वन्ध्या ? वन्ध्या चेत्कथं माता ? तदेवं मायाया अवास्तव्या अप्यर्थसहत्वेऽङ्गीक्रियमाणे, प्रस्तुतवाक्यवत् स्पष्ट एव स्ववचनविरोधः । इति समासार्थः । .
.: व्यासार्थस्त्वयम्-ते वादिन इदं प्रणिगदन्ति-तात्त्विकमात्मब्रह्मेवाऽस्ति- . 'सर्व वै खल्विदं ब्रह्म नेह नानाऽस्ति किंचन । २आरामं तस्य पश्यन्ति न तत्पश्यति कश्चन ॥१॥
इति न्यायात् । अयं तु प्रपञ्चो मिथ्यारूपः, प्रतीयमानत्वात् । यदेवं तदेवम् । यथा शुक्तिशकले कलधौतम् । तथा चाऽयं, तस्मात् तथा ।
तदेतद्वार्तम् । तथाहि-मिथ्यारुपत्वं तैः कीदृग् विवक्षितम् ? किमत्यन्ताऽसत्त्वम्, उताऽन्यस्याऽन्याऽऽकारतया प्रतीतत्वम्, आहोस्विदनिर्वाच्यत्वम् ? प्रथमपक्षेअसख्यातिप्रसङ्गः । द्वितीये विपरीतख्यातिस्वीकृतिः । तृतीये तु किमिदमनिर्वाच्यत्वम् ? निःस्वभावत्वं चेत्, निसः प्रतिषेधार्थत्वे, स्वभावशब्दस्यापि भावाभावयोरन्यतरार्थत्वे, असत्ख्यातिसत्ख्यात्य भ्युपगमप्रसङ्गः । भावप्रतिषेधे-असत्ख्यातिः, अभावप्रतिषेधे-सत्ख्यातिरिति । ।
१. 'अव्याक्षेपो भविष्यन्त्याः कार्यसिद्धेर्हि लक्षणम्' । इत्युत्तरार्धम् । रघुवंशे दशमसर्गे श्लोक. ६ । २. उत्तरार्धं क. ख. घ. पुस्तकेषु नास्ति । ३. निःसारम् । ४. आत्मख्यातिरसत्ख्यातिरख्यातिः ख्यातिरन्यथा । तथाऽनिर्वचनख्यातिरित्येतत्ख्यातिपञ्चकम् ।।१।। स्याद्वादमञ्जरीA rikRRANA C५)