________________
प्रतिज्ञाहानिः प्रतिज्ञान्तरं प्रतिज्ञाविरोधः प्रतिज्ञसंन्यासो हेत्वन्तरमर्थाऽन्तरं निरर्थकमविज्ञताऽर्थमपार्थकमकलं न्यूनमधिकं पुर्नरुक्तमननुर्भीषणमज्ञानमप्रतिभी विक्षेपो मताऽनुज्ञा पर्यनुयोज्योपेक्षणंनिरनुयोज्याऽनुयोगोऽपसिद्धान्तो हेत्वाभासाश्च निग्रहस्थानानि ।।५-२-१।।
१८
१ प्रतिदृष्टान्तधर्माऽभ्यनुज्ञा स्वदृष्टान्ते प्रतिज्ञाहानिः ।।५-२-२ ।।
२ प्रतिज्ञाताऽर्थप्रतिषेधे धर्मविकल्पात्तदर्थनिर्देशे प्रतिज्ञाऽन्तरम् ।।५-२-३ ।। ३ प्रतिज्ञाहेत्वोर्विरोधः प्रतिज्ञाविरोधः ।।५-२-४।।
४ पक्षप्रतिषेधे प्रतिज्ञाताऽर्थाऽपनयनं प्रतिज्ञासंन्यासः ।।५-२-५।। ५ अविशेषोक्ते हेतौ प्रतिषिद्धे विशेषमिच्छतो हेत्वन्तरम् ।।५-२-६।। ६ प्रकृतादर्थादप्रतिसम्बद्धाऽर्थमर्थान्तरम् ।।५-२-७।।
७ वर्णक्रमनिर्देशवन्निरर्थकम् ।।५-२-७।।
८ परिषत्प्रतिवादिभ्यां त्रिरभिहितमप्यविज्ञातमविज्ञातार्थम् ।।५-२-९ ।। ९ पौर्वाऽपर्याऽयोगादप्रतिसम्बद्धाऽर्थमपार्थकम् ।।५-२-१०।।
१० अवयवविपर्यासवचनमप्राप्तकालम् ।।५- २ - ११ । ।
११ हीनमन्यतमेनाप्यवयवेन न्यूनम् ।।५-२-१२ ।।
१२ हेतूदाहरणाऽधिकमधिकम् ।।५-२-१३।।
१३ शब्दार्थयोः पुनर्वचनं पुनरुक्तमन्यत्राऽनुवादात् ।।५-२-१४।। अनुवादे त्वपुनरुक्तं शब्दाऽभ्यासादर्थविशेषोपपत्तेः 'अर्थादापन्नस्य स्वशब्देन पुनर्वचनम् ।।५-२-१५।।
१४ विज्ञातस्य परिषदा त्रिरभिहितस्याऽप्यप्रत्युच्चारणमननुभाषणम् ।।५-२-१६।।
१५ अविज्ञातं चाऽज्ञानम् ।।५-२-१७।।
१६ उत्तरस्याऽप्रतिपत्तिरप्रतिभा ।।५-२-१८।
स्याद्वादमञ्जरी औ
आज ॐ ॐ ॐ २३७