________________
तदनुपलब्धेरनुपलम्भादभावसिद्धौ तद्विपरीतोपपत्तेरनुपलब्धिसमः ।।५-१-२९ ।। अनुपलम्भात्मकत्वादनुपलब्धेरहेतुः ।।५-१-३०।। ज्ञानविकल्पानां च भावाऽभावसंवेदनादध्यात्मम् ।।५-१-३१।। साधर्म्यात्तुल्यधर्मोपपत्तेः सर्वाऽनित्यत्वप्रसङ्गादनित्यसमः ।।५-१-३२।। साधादसिद्धेः प्रतिषेधाऽसिद्धिः प्रतिषेध्यसाधाञ्च ।।५-१-३३।।
दृष्टान्ते च साध्यसाधनभावेन प्रज्ञातस्य धर्मस्य हेतुत्वात्तस्य चोभयथाभावानाऽविशेषः ।।५-१-३४।।
नित्यमनित्यभावादनित्ये नित्यत्वोपपत्तेनित्यसमः ।।५-१-३५ ।।
प्रतिषेध्ये नित्यमनित्यभावादनित्ये नित्यत्वोपपत्तेः प्रतिषेधाऽभावः ।।५१-३६।।
प्रयत्नकार्याऽनेकत्वात्कार्यसमः ।।५-१-३७ ।। कार्याऽन्यत्वे प्रयत्नाऽहेतुत्वमनुपलब्धिकारणोपपत्तेः ।।५-१-३८।। प्रतिषेधेऽपि समानो दोषः ।।५-१-३९ ।। सर्वत्रैवम् ।।५-१-४०।। प्रतिषेधविप्रतिषेधे. प्रतिषेधदोषवद्दोषः ।।५-१-४१।।
प्रतिषेधं . सदोषमभ्युपेत्य प्रतिषेधविप्रतिषेधे समानो दोषप्रसङ्गो मताऽनुज्ञा ।।५-१-४२।।
स्वपक्षलक्षणापेक्षोपपत्त्युपसंहारे हेतुनिर्देशे परपक्षदोषाऽभ्युपगमात्समानो दोष इति ।।५-१-४३।।
(२३६ARAARA
स्याद्वादमञ्जरी