________________
ननु तर्हि अबाध्यसिद्धान्तमित्यपार्थकम्, यथोक्तगुणयुक्तस्याव्यभिचारिवचनत्वेन तदुक्तसिद्धान्तस्य बाधायोगात् । न । अभिप्रायापरिज्ञानात् । निर्दोषपुरूषप्रणीत एव अबाध्यः सिद्धान्तः । नापरेऽपौरुषेयाद्याः । ' असम्भवादिदोषाघ्रातत्वात् इति ज्ञापनार्थम्, आत्ममात्रतारकमूकान्त'कृत्केवल्यादिरूपमुण्डकेवलिनो यथोक्तसिद्धान्तप्रणयनाऽसमर्थस्य व्यवच्छेदार्थं वा विशेषणमे
अन्यस्त्वाह- अमर्त्यपूज्यमिति न वाच्यम् । यावता यथोद्दिष्टगुणगरिष्ठस्य त्रिभुवनविभोरमर्त्यपूज्यत्वं न कथञ्चन व्यभिचरतीति । सत्यम् । लौकिकानां हि अमर्त्याः पूज्यतया प्रसिद्धाः, तेषामपि भगवानेव पूज्य इति विशेषणेनानेन ज्ञापयन्नाचार्यः परमेश्वरस्य देवाधिदेवत्वमावेदयति । एवं पूर्वार्धे चत्वारोऽतिशया उक्ताः ।
अनन्तविज्ञानत्वं च सामान्यकेवलिनामप्यवश्यंभावीत्यतस्तद्व्यवच्छेदाय श्री वर्धमानमिति विशेष्यपदमंपि विशेषणरूपतया व्याख्यायते । श्रिया चतुस्त्रिंशदतिशयसमृध्दयनुभवात्मक - भावार्हन्त्यरूपया वर्धमानं वर्धिष्णुम् । नवतिशयानां परिमितंतयैव सिद्धान्ते प्रसिद्धत्वात् कथं वर्धमानतोपपत्तिरिति चेत् । न, यथा ४ निशीथंचूर्णो भगवतां श्रीमदर्हतामष्टोत्तरसहस्त्रसङ्ख्यबाह्यलक्षणसङ्ख्याया उपलक्षणत्वेनाऽन्तरङ्गलक्षणानां सत्त्वादीनामानन्त्यमुक्तम् । एवमतिशयानामधिकृतपरिगणनायोगेऽप्यपरिमितत्वमविरूद्धम्। ततो नातिशयश्रिया वर्धमानत्वं दोषाश्रय इति ।
१. ताल्वादिजन्मा ननु वर्णवर्गो वर्णात्मको वेद इति स्फुटं च ।
पुंसश्च ताल्वादि ततः कथं स्यादपौरुषेयोऽयमिति प्रतीतिः ।
२. अन्तो विनाशः सच कर्मणस्तत्फलस्य वा संसारस्य कृतो येन सोऽन्तकृत्, केवली - अतीतानागतवर्तमानसूक्ष्मव्यवहितपदार्थवेदी ।
"
३. (१) द्रव्यभावमुण्डप्रधानस्तथाविधबाह्यातिशयशून्यः केवली (२) संविग्रो भवनिर्वेदादात्मनिःसरणं तु यः । आत्मार्थं संप्रवृत्तोऽसौ सदा स्यान्मुण्डकेवली ।। ( ३ ) यः पुनः सम्यक्त्वावाप्तौ भवनैर्गुण्यदर्शनतस्तन्निर्वेदादात्मनिःसरणमेव केवलमभिवाञ्छति तथैव चेष्टते स मुण्डकेवली भवति । इति ।
४. निशीथचूर्णिग्रन्थे १७ उद्देशे ।
६ ॐ ॐ ॐ ॐ ॐ ॐ ॐ ॐ ॐ ॐ ॐ ॐ ॐ स्याद्वादमञ्जरी