________________
अत्राह पर:- अनन्तविज्ञानमित्येतादेवास्तु, नाऽतीतदोषमिति । गतार्थत्वात् । दोषाऽत्ययं विनाऽनन्तविज्ञानत्वस्यानुपपत्तेः । अत्रोच्यतेकुनयमतानुसारिपरिकल्पिताप्तव्यवच्छेदार्थमिदम् । तथा चाहुराजी विकनयानुसारिणः'ज्ञानिनो धर्मतीर्थस्य कर्तारः परमं पदम् । गत्वाऽगच्छन्ति भूयोऽपि भवं तीर्थनिकारतः' ।।१।। इति ।
तद् नूनं न ते अतीतदोषाः। कथमन्यथा तेषा तीर्थनिकारंदर्शनेऽपि भवावतारः ?
आह-यद्येवम् अतीतदोषमित्येवाऽस्तु अनन्तविज्ञानमित्यतिरिच्यते । दोषात्ययेऽवश्यंभावित्वादनन्तविज्ञानत्वस्य । न । कैश्चिंद्दोषाभावेऽपि तदनभ्युपगमात्। तथा च वैशेषिकवचनम् ।
'सर्वं पश्यतु वा मा वा तत्त्वमिष्टं तु पश्यतु । कीटसङ्ख्यापरिज्ञानं तस्य न: क्वोपयुज्यते. ?' ।।१।। तथा-'तस्मादनुष्ठानगतं ज्ञानमस्य विचार्यताम् । प्रमाणं दूरदर्शी चेदेते गृध्रानुपास्महे' ।।१।।
तन्मतव्यपोहार्थमनन्तविज्ञानमित्यदुष्टमेव । विज्ञानानन्त्यं विना एकस्याप्यर्थस्य यथावत् परिज्ञानाभावात् । तथा चार्षम्-'जे एगं जाएइ, से सव्वं जाणइ, जे सव्वं जाणइ से एगं जाणइ' । तथा- .. ‘एको भावः सर्वथा येन दृष्टः सर्वे भावाः सर्वथा तेना दृष्टाः ।। सर्वे भावाः सर्वथा येन दृष्टा एको भावः सर्वथा तेन दृष्ट: ।।१।।
१. अजीवं निरात्मत्वमभ्युपगच्छन्तीत्याजीविका बोद्धाः । २. 'तद्वचनम्' इति ह. पुस्तके पाठः । ३. आचारांगसूत्रे प्रथमश्रुतस्कंधे तृतीयाध्ययने चतुर्थोद्देशे सूत्रम् १२२ । छायाः य एकं जानाति __स सर्वं जानाति । यः सर्वं जानाति स एकं जानाति । ४. 'इति' इत्यात्यधिकं ख. पुस्तके । स्याद्वादमञ्जरी Mukukkuk ५)